This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्ति
मुक्तावली ।
 
२३
 
ञ्च मुच मुञ्च सलिलं कृपानिधे नाथ नास्ति समयो विलम्बने ।

अद्य चातककुटुम्बके मृते वारि वारिधर किं करिष्यसि ॥ १८५ ॥

 
नभसि निरवलम्बे [^१]सीदता दीर्घकालं

त्वदभिमुखनिषण्णोत्तानचञ्चूपुटेन ।
जलघ

जलध
र जलधारा दूरतस्तावदास्तां
 

ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥ १८६ ॥

 
विलपति तृषा सारङ्गोऽयं भवानयमुन्नतो

जलमपि च ते संयोगोऽयं कथंचिदुपस्थितः ।

उपकृतिकृते प्रहंह्वं चेतः कुरुष्व यदग्रतो
 

भ्रमति पवने क्व त्वं कार्य क्कायं क्व ते जलसंचयः ॥ १८७ ॥

 
मेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः

[^२]
पाठीनैः पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्च्छितम् ।

तस्मिन्नेव सरस्यकालजलदेनागत्य तच्चेष्टितं

यत्राकण्ठनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ १८८ ॥
 

( इत्यकालजलदान्योक्तयः ।)
 
१. गमनं कुर्वता. २. मकरै:.
 
Acharya Shri Kailassagarsuri Gyanmandir
 

 
अथ प्रकाशवर्षान्योक्तयः ।

अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः
 

किमेभिर्निर्घोषैः सृज झगिति झात्कारि सलिलम् ।

अये पश्यावस्थामकरुण समीरव्यतिकर-

ज्वलद्दावज्वालावलिजटिलमूर्तेर्विटपिनः ॥ १८९ ॥

 
शोषं गते सरसि शैवलमञ्जरीणा-

मन्तस्तिमिर्लुठति तापविसंस्थुलाङ्गः ।

अत्रान्तरे यदि न वारिद वारिवृन्दै -

राष्प्लावयेस्तदनु किं मृतमण्डनेन ॥ १९० ॥
 

 
कालातिक्रमणं कुरुष्व तडितां विस्फूर्जितैस्त्रासय
 

स्फारैर्भापय गर्जितैरतितरां कार्ष्र्ण्यं मुखे दर्शय ।
 
For Private And Personal Use Only
 

 
[^१.] गमनं कुर्वता.
[^२.] मकरै: .