This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
२३
 
मुच मुच सलिलं कृपानिधे नाथ नास्ति समयो विलम्बने ।
अद्य चातककुटुम्बके मृते वारि वारिधर किं करिष्यसि ॥ १८५ ॥
नभसि निरवलम्बे सीदता दीर्घकालं
त्वदभिमुखनिषण्णोत्तानचञ्चपुटेन ।
जलघर जलधारा दूरतस्तावदास्तां
 
ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥ १८६ ॥
विलपति तृषा सारङ्गोऽयं भवानयमुन्नतो
जलमपि च ते संयोगोऽयं कथंचिदुपस्थितः ।
उपकृतिकृते प्रहं चेतः कुरुष्व यदग्रतो
 
भ्रमति पवने व त्वं कार्य व ते जलसंचयः ॥ १८७ ॥
मेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः
पाठीनैः पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्च्छितम् ।
तस्मिन्नेव सरस्यकालजलदेनागत्य तच्चेष्टितं
यत्राकण्ठनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ १८८ ॥
 
( इत्यकालजलदान्योक्तयः ।)
 
१. गमनं कुर्वता. २. मकरै:.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अथ प्रकाशवर्षान्योक्तयः ।
अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः
 
किमेभिर्निर्घोषैः सृज झगिति झात्कारि सलिलम् ।
अये पश्यावस्थामकरुण समीरव्यतिकर-
ज्वलद्दावज्वालावलिजटिलमूर्तेर्विटपिनः ॥ १८९ ॥
शोषं गते सरसि शैवलमञ्जरीणा-
मन्तस्तिमिर्लुठति तापविसंस्थुलाङ्गः ।
अत्रान्तरे यदि न वारिद वारिवृन्दै -
राष्प्लावयेस्तदनु किं मृतमण्डनेन ॥ १९० ॥
 
कालातिक्रमणं कुरुष्व तडितां विस्फूजितैस्त्रासय
 
स्फारैर्भापय गर्जितैरतितरां काष्र्ण्य मुखे दर्शय ।
 
For Private And Personal Use Only