This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
२२
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
त्वमेव चातकाधार इति केषां न गोचरः ।

घिगम्भोद यदस्यापि कार्पण्योक्तीः प्रतीक्ष्यसे ॥ १७६ ॥
 

 
अयि जलद यदि न दास्यसि कतिचित्त्वं चातकाय जलकणिकाः ।

तदयमचिरेण भविता सलिलाञ्जलिदानयोग्यस्ते ॥ १७७ ॥

 
त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः ।

अस्माकमर्कवृक्षाणां पूर्वपत्रेषु संशयः ॥ १७८ ॥

 
आश्वास्य पर्वतकुलं तपनोष्मतप्तं

दुर्दाववह्निविधुराणि च काननानि ।

नानानदीनदशतानि च पूरयित्वा
 

रिक्तोऽसि यज्जलद सैव तवोत्तमश्रीः ॥ १७९ ॥

 
कर्तव्यो हृदि वर्तते यदि तरोरस्योपकारस्तदा
 

मा कालं गमयाम्बुवाह समये सिञ्चैनमम्भोभरैः ।

शीर्णे पुष्पफले दले विगलिते मूले गते शुष्कतां

कस्मै किं हितमाचरिष्यसि परीतापस्तु ते स्थास्यति ॥ १८०

 
एतेषु हा तरुणमारुतधूयमान-

दावानलैः कवलितेषु महीरुहेषु ।

अम्भो न चेज्जलद मुञ्चसि मा विमुञ्च
 

वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥ १८१ ॥

 
हृद्या नद्यः कमलसरसी राजहंसावतंसाः
 

पुण्यश्रोता हिमजलभुवस्त्वत्कृते येन मुक्ताः ।

संप्राप्तेऽस्मिञ्जलद दहनोच्चण्डदाहे निदाघे
 

पर्जन्य स्वीकुरु तमधुना चातकं पातकं वा ॥ १८२ ॥

 
एतदत्र पथिकैकजीवितं पश्य शुष्यतितरां महत्सरः ।

धिड्युधाम्बुधर रुद्धसद्गतीर्वर्धिताः किमिति तेऽद्रिवाहिनीः॥ १८३ ॥

 
वितर वारिद वारि [^१]तृषातुरे चिरपिपासितचातकपोतके[^२]

मरुति संचरति क्षणमन्यथा क्व च भवान्कङ्क्व पयः क्व च चातकः ॥ १८४॥

 
[^
१.] 'दवार्दितें' इति वा पाठः.
[^
२.] 'याचके' इति वा पाठः.
 
For Private And Personal Use Only