2023-02-21 15:48:43 by ambuda-bot
This page has not been fully proofread.
Shri Mahavir Jain Aradhana Kendra
२२
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
त्वमेव चातकाधार इति केषां न गोचरः ।
घिगम्भोद यदस्यापि कार्पण्योक्तीः प्रतीक्ष्यसे ॥ १७६ ॥
अयि जलद यदि न दास्यसि कतिचित्त्वं चातकाय जलकणिकाः ।
तदयमचिरेण भविता सलिलाञ्जलिदानयोग्यस्ते ॥ १७७ ॥
त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः ।
अस्माकमर्कवृक्षाणां पूर्वपत्रेषु संशयः ॥ १७८ ॥
आश्वास्य पर्वतकुलं तपनोष्मतप्तं
दुर्दाववह्निविधुराणि च काननानि ।
नानानदीनदशतानि च पूरयित्वा
रिक्तोऽसि यज्जलद सैव तवोत्तमश्रीः ॥ १७९ ॥
कर्तव्यो हृदि वर्तते यदि तरोरस्योपकारस्तदा
मा कालं गमयाम्बुवाह समये सिञ्चैनमम्भोभरैः ।
शीर्णे पुष्पफले दले विगलिते मूले गते शुष्कतां
कस्मै किं हितमाचरिष्यसि परीतापस्तु ते स्थास्यति ॥ १८०
एतेषु हा तरुणमारुतधूयमान-
दावानलैः कवलितेषु महीरुहेषु ।
अम्भो न चेज्जलद मुञ्चसि मा विमुञ्च
वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥ १८१ ॥
हृद्या नद्यः कमलसरसी राजहंसावतंसाः
पुण्यश्रोता हिमजलभुवस्त्वत्कृते येन मुक्ताः ।
संप्राप्तेऽस्मिञ्जलद दहनोच्चण्डदाहे निदाघे
पर्जन्य स्वीकुरु तमधुना चातकं पातकं वा ॥ १८२ ॥
एतदत्र पथिकैकजीवितं पश्य शुष्यतितरां महत्सरः ।
धियुधाम्बुधर रुद्धसद्गतीर्वर्धिताः किमिति तेऽद्रिवाहिनीः॥ १८३ ॥
वितर वारिद वारि तृषातुरे चिरपिपासितचातकपोतके ।
मरुति संचरति क्षणमन्यथा क च भवान्क पयः क्व च चातकः ॥ १८४॥
१. 'दवार्दितें' इति वा पाठः. २. 'याचके' इति वा पाठः.
For Private And Personal Use Only