This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
मार्गो भूरि मरुर्जलं स्थलभुवि स्वमेप्नेsपि नो लभ्यते

तीव्रो वाति समीरणः क्वचिदपि च्छायाभृतो न द्रुमाः ।

अङ्गारप्रकरान्किरन्निव रविर्ग्रीष्मे तपत्यम्बरे
 

तद्भोः पान्थहिताय पूरय धरां पाथोद पाथोभरैः ॥ १६८ ॥

 
सक्षारो जलधिः सरांसि वितरन्त्यभ्यागतेभ्यो मितं
 

 

गृह्यन्ते सरितश्चिरेण परितोऽप्याघाय बन्धं बलात् ।

ग्राह्यं कूपकतः कथंचन किमप्यारोप्य कण्ठे पदं

तत्त्वां त्यागिनमेकमेव भगवन्पर्जन्य मन्यामहे ॥ १६९ ॥

 
क्षपां क्षामीकृत्य प्रसभमपहृत्याम्बु सरितां
 

प्रताप्योर्वीवीं कृत्स्त्रां तरुगहनमुच्छोष्य सकलम् ।

क्व संप्रत्युष्णांशुर्गत इति तदन्वेषणपरा-

स्
तडीद्दीपालोका दिशि दिशि चलन्तीव जलदाः ॥ १७० ॥

 
अमीभिः संसिक्तेस्तव किमु फलं वारिदघटे

यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः ।

अयं युक्तो व्यक्तं ननु सुखयितुं चातकशिशु-

र्यदेष ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरान् ॥ १७१ ॥

 
भरिऊण जलञ्जलया जस्स पसाएण उन्नयं पत्ता ।

तस्सेव पुणो उवरिं गज्जन्ता किं न लज्जन्ति ॥ १७२ ॥

 
भग्गो सूरपयावो छन्नं गयणं धरावि तप्पवि या ।

भुअणं भरन्त जलहर तुह छज्जसि गज्जियं गुहिरम् ॥ १७३ ॥

 
अन्नेहिं वि कूवजलेहिं निच्चं सव्वन्ति मामवल्लीओ ।

जलहर जलसिञ्चन्ताणं का वि इयरामहच्छाया ॥ १७४ ॥
 

 
( इति सामान्यमेघान्योक्तयः ।)
 
Acharya Shri Kailassagarsuri Gyanmandir
 

 
सांप्रतमकालजलदस्य ।
 

 
आसन्यावन्ति याच्ञासु चातकाभ्श्रूणि तेऽम्बुद ।

तावन्तोऽपि त्वया मेघ न मुक्ता जलबिन्दवः ॥ १७५ ॥
 
For Private And Personal Use Only