2023-09-19 10:51:38 by jayusudindra
This page has been fully proofread once and needs a second look.
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
मरुद्वा नो वास्यत्यथ घन शरद्वा न भविता ॥ १५५ ॥
मामभ्युन्नतमागतोऽयमिति वा कामं समासेवते
मच्छायामिति वा यदन्यविषयं विद्वेष्टि वारीति वा ।
सद्यो वर्ष वराकचातककृते नो चेदयं याचिता
याच्ञाया यदुपेक्षणं च जलद व्रीडाकरं त्वादृशाम् ॥ १५६ ॥
सुखयसि तृषोत्ताम्यत्तालूस्खलद्
कतिपयपयोबिन्दुस्यन्दैर्न चातकमागतम् ।
जलघ
जलधर यदा कालात्कोऽपि प्रचण्डसमीरणः
प्रवहति तदा नायं न त्वं न ते जलबिन्दवः ॥ १५७ ॥
एतान्यहानि किल चातकशावकेन
नीतानि कण्ठकुहरस्थितजीवितेन ।
तस्यार्थिनो जलद पूरय वाञ्छितानि
मा भूत्त्वदेकशरणस्य बत प्रमादः ॥ १५८ ॥
हे मेघ मानमहितस्य तृषातुरस्य
१९
त्यक्तत्वदन्यशरणस्य च चातकस्य ।
अम्भःकणान्कतिचिदप्यधुना विमुञ्च
नो चेद्भविष्यसि जलाञ्जलिदानयोग्यः ॥ १५९ ॥
जलधर
यदुपनतवान्विश्वान्याश्वासयन्नमृतद्रवैः ।
तदियमुदयद्वल्लीपुष्पाङ्कुरच्छलतो दधौ
क्षितिशशिमुखी साहंकारं विभूषणविभ्रमम् ॥ १६० ॥
[^१]तावन्नीतिपरा नराधिपतयस्तावत्प्रजा सुस्थिता
तावन्मित्रकलत्रपुत्रपितरस्तावन्मुनीनां तपः ।
For Private And Personal Use Only
१. 'नीत्या तावदमी नराधिपतयः पान्ति प्रजाः पुत्रवत्तावन्नीतिविदः स्वकर्मनिरता-
स्तावदृषीणां तपः । तावन्मित्रकलत्रपुत्रपितरः स्नेहे स्थिताः संततं यावत्वं प्रतिवत्सरं
जलधर क्षोणीतले वर्षसि ॥" इति पाठान्तरम्.