This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१८
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
[^१]यस्याम्बुकणमादाय प्राप्तोऽसि परमोन्नतिम् ।

तस्योपरि पयोराशे गर्जन्मेघ न लज्जसे ॥ १४५ ॥

 
चातकः स्वानुमानेन जलं प्रार्थयतेऽम्बुदात् ।

स स्वौदार्यतया नित्यं प्लावयत्यम्बुदो महीम् ॥ १४६ ॥

 
धाराघर घधर धरामेनां धाराभिरभिवर्षसि ।

खगचञ्चुपुटीद्रोणीपूरणे कः परिश्रमः ॥ १४७ ॥
 

 
जलर तदयुक्तं किल जलपटलं यद्ददासि रसितयुतम् ।

उन्नतिभृतां सतां तनुमनसोऽध्वासौ यतस्त्याज्यः ॥ १४८ ॥

 
गर्ज त्वं यदि गर्जसि जलधर मा गर्ज गर्ज गम्भीरम् ।

निर्दय पथिकवधूजनहृदयस्फोटेन किं लभसि ॥ १४९ ॥

 
जलधर एव महत्सु महानिति महतां स्तुतिविषयः ।

यस्तर्पयति समस्तजगत्कतिपयदिवसाभ्युदयः ॥ १५० ॥

 
यदि यदि सन्ति कथं न सरिद्वापीकूपसरांसि ।

चातक एष पुनः स्पृहयत्यम्बुदभवदम्भांसि ॥ १५१ ॥

 
श्यामतां वहतु वातु कठोरं वक्तु चार्कविभवं हरतां वा ।

तद्ददौ किमपि वारिधरस्तु प्रीणितानि बत येन जगन्ति ॥ १५२ ॥

 
जले कजं तिष्ठति चातकः स्थले केकी वने दर्दुरकस्तडागे ।

चत्वारि मित्राणि मुदं वितेनिरे गर्जारवं कुर्वति वारिवाहे ॥ १५३ ॥

 
यत्त्वद्गर्जितमूर्जितं यदपि ते प्रोद्दामसौदामिनी-

दानाडम्बरमम्बरे विरचितं यद्दूरमभ्युन्नतम् ।

तेषां पर्यवसानमेतदधुना जातं यदम्भोधर
 

द्वित्राः कृत्रिमरोदनाश्रुतनवो मुक्ताः पयोबिन्दवः ॥ १५४ ॥

 
तृषार्ते पाथोद प्रलपति पुरश्चातकशिशौ

यदेतन्नैष्ठुयैर्ये तदिह गदितुं मां त्वरयति ।
 

 
[^
१.] 'यदम्बुकणमादाय प्राप्तोऽसि जलदोन्नतिम् । तस्योपर्यम्बुधे गर्जन्मलिनस्योचिती

न ते ॥' इति पाठान्तरम्.
 
For Private And Personal Use Only