This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
पात्रापात्रविचारसारविरहो गच्छत्युदारात्मतां

मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गुणाः ॥१३४॥

 
समुद्रस्यापत्यं प्रथितमहिमामुद्रितभुवः
 

खसा प्रालेयांशोस्त्रिनयनशिरोधामवसतेः ।

मुरारातेर्योषित्सरसिरुहकिञ्जल्कनिलया
 

तथापि श्रीः स्त्रीत्वात्प्रकृतिचपलालिङ्गति खलान् ॥१३५॥
 
Acharya Shri Kailassagarsuri Gyanmandir
 

 
चक्षुःश्रुतिवाग्धरणं लक्ष्मीः कुरुते जनस्य को दोषः ।

गरलसहोअरजाया अच्छरियं जं न मारेइ ॥ १३६ ॥

 
जुत्तं किवणेण खहुं खणिऊण लङ्घिआ लच्छी ।

कन्हस्स वि अद्धङ्गी सा कीस परङ्गणे भमइ ॥ १३७ ॥
 

 

( इति लक्ष्म्यन्योक्तयः ।)
 
अथ सामान्यमेघान्योक्तयः ।
 

 
एकस्य तस्य मन्ये धन्यामभ्युन्नतिं जलघरस्य ।
धरस्य ।
विश्वं सशैलकाननमाननमालोकते यस्य ॥ १३८ ॥

 
संप्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः ।

जलद त्वयि विश्राम्यति सृष्टिरियं भुवनलोकस्य ॥ १३९ ॥

 
क्षणदृष्टनष्टतडितो निजसंपत्तेः पयोदनिवहेन ।
 

ज्ञातं साधु यदुचितं भुवनेभ्यो वितरता वारि ॥ १४० ॥

 
अपगतरजोविकारा घनपटलाक्रान्ततारकालोका ।

लम्बिपयोधरभारा प्रावृडियं वृद्धवनितेव ॥ १४१ ॥

 
कृतकृत्यंमन्यः स्यादरघट्टः क्षेत्रमात्रसेकेऽपि ।

अम्भोधरस्य तु रां विधुरामुद्धर्तुमधिकारः ॥ १४२ ॥

 
जलर जलभरपटलैरुपहर संतोषमुद्धतं जगतः ।

नो चेदपसर दूरं हिमकरकरदर्शनं वितर ॥ १४३ ॥

 
प्रावृषेण्यस्य मालिन्यं दोषः कोऽभीष्टवर्षिणः ।

शारदाभ्रस्य शुभ्रत्वं वद कुत्रोपयुज्यते ॥ १४४ ॥
 
For Private And Personal Use Only
 
१७
 
( इति लक्ष्म्यन्योक्तयः ।)