This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
हे लक्ष्मि क्षणिके स्वभावचपले धिङ्यूमूढपापामे

न त्वं धीरविशेषमिच्छसि किल प्रायेण दुश्वाचारिणि ।

ये ये पण्डितसत्यशौचनिरता ये चापि धर्मे रता-

स्तेभ्यो लज्जसि निर्घृणा गतभिये नीचो जनो वल्लभः ॥११७॥

 
भो लोका मम दूषणं कथमिदं संचारितं भूतले
 

नोत्सेका क्षणिकातिनिर्घृणतरा लक्ष्मीरतिस्वैरिणी ।

नैवाहं कुलटा न चापि चपला नैवं गुणद्वेषी
 
षिणी
पुण्येनैव भवाम्यहं स्थिरतरा युक्तं हि तस्यार्जनम् ॥ ११८ ॥

 
गुणिनां गुणमालोक्य निजबन्धनशङ्कया ।

राजंल्लक्ष्मीः कुरङ्गीव दूरं दूरं पलायते ॥ ११९ ॥

 
तावन्माता पिता चैव तावत्सर्वेऽपि बान्धवाः ।

तावद्भार्या सदा हृष्टा यावलक्ष्मीः स्थिरा गृहे ॥ १२० ॥

 
सर्वासामपि नारीणां मध्ये श्रीः सुभगा खलु ।

स्पृहयन्ति महान्तोऽपि यां स्वेच्छाचारिणीमपि ॥ १२१ ॥

 
श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् ।

उपदिशति कामिनीनां यौवनमद एव ललितानि ॥ १२२ ॥

 
तावद्गुणगण कलितस्ताव न्निजगोत्रमण्डनं परमम् ।

यावत्करिकर्णचला कमला न त्यजति सत्पुरुषम् ॥ १२३ ॥

 
पद्मं पद्मा परित्यज्य स्वावासमपि या व्रजेत् ।

दिनान्ते सा कथं नाम परस्थानेषु सुस्थिरा ॥ १२४ ॥

 
या स्वसद्मनि पद्मेऽपि संध्यावधि विजृम्भते ।

इन्दिरा मन्दिरेऽन्येषां कथं तिष्ठति सा चिरम् ॥ १२५ ॥

 
धर्मः सनातनो यस्य दर्शनप्रतिभूरभूत् ।
 

परित्यजति किं नाम तेषां मन्दिरमिन्दिरा ॥ १२६ ॥
 

 
मत्वात्मनो बन्धनिबन्धनानि पुण्यानि पुंसां कमला किलासौ ।

ङ्कंद्ध्वंसनायेव धनेश्वराणां दत्ते मतिं दुर्बलपीडनाय ॥ १२७ ॥
 
For Private And Personal Use Only
 
१५