This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
हे लक्ष्मि क्षणिके स्वभावचपले धिङ्यूढपापाघमे
न त्वं धीरविशेषमिच्छसि किल प्रायेण दुश्वारिणि ।
ये ये पण्डितसत्यशौचनिरता ये चापि धर्मे रता-
स्तेभ्यो लज्जसि निर्घृणा गतभिये नीचो जनो वल्लभः ॥११७॥
भो लोका मम दूषणं कथमिदं संचारितं भूतले
 
नोत्सेका क्षणिकातिनिर्घृणतरा लक्ष्मीरतिस्वैरिणी ।
नैवाहं कुलटा न चापि चपला नैवं गुणद्वेषी
 
पुण्येनैव भवाम्यहं स्थिरतरा युक्तं हि तस्यार्जनम् ॥ ११८ ॥
गुणिनां गुणमालोक्य निजबन्धनशङ्कया ।
राजंल्लक्ष्मीः कुरङ्गीव दूरं दूरं पलायते ॥ ११९ ॥
तावन्माता पिता चैव तावत्सर्वेऽपि बान्धवाः ।
तावद्भार्या सदा हृष्टा यावलक्ष्मीः स्थिरा गृहे ॥ १२० ॥
सर्वासामपि नारीणां मध्ये श्रीः सुभगा खलु ।
स्पृहयन्ति महान्तोऽपि यां स्वेच्छाचारिणीमपि ॥ १२१ ॥
श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् ।
उपदिशति कामिनीनां यौवनमद एव ललितानि ॥ १२२ ॥
तावद्गुणगण कलितस्ताव निजगोत्रमण्डनं परमम् ।
यावत्करिकर्णचला कमला न त्यजति सत्पुरुषम् ॥ १२३ ॥
पद्मं पद्मा परित्यज्य स्वावासमपि या व्रजेत् ।
दिनान्ते सा कथं नाम परस्थानेषु सुस्थिरा ॥ १२४ ॥
या स्वसद्मनि पद्मेऽपि संध्यावधि विजृम्भते ।
इन्दिरा मन्दिरेऽन्येषां कथं तिष्ठति सा चिरम् ॥ १२५ ॥
धर्मः सनातनो यस्य दर्शनप्रतिभूरभूत् ।
 
परित्यजति किं नाम तेषां मन्दिरमिन्दिरा ॥ १२६ ॥
 
मत्वात्मनो बन्धनिबन्धनानि पुण्यानि पुंसां कमला किलासौ ।
तङ्कंसनायेव धनेश्वराणां दत्ते मतिं दुर्बलपीडनाय ॥ १२७ ॥
 
For Private And Personal Use Only
 
१५