This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 

 
अन्योक्तिमुक्तावली ।
 
अथेश्वरान्योक्तयः ।

तावत्सप्तसमुद्रमुद्रितमहीभूभृद्भिरअंभ्रंकषै-

स्तावद्भिः परिवारिता पृथुतरैवींर्द्वीपैः समन्तादियम् ।

यस्य स्फारफणामणौ निलयिनी तिर्यक्कलङ्काकृतिः

शेषः सोऽप्यगमद्यदङ्गदपदं रुद्राय तस्मै नमः ॥ १०२ ॥

 
त्वं चेत्संचरसे वृषेण लघुता का नाम दिग्दन्तिनां

व्यालैः कङ्कणभूषणानि तनुषे हानिर्न हेमाम्नमपि ।

मूर्धन्यं कुरुषे जडांशुमयशः किं नाम लोकत्रयी-

दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥ १०३ ॥

 
बिभ्राणे त्वयि भस्म कः समभवन्मन्दादरश्चन्दने

कः क्षौमं कलयांचकार न कृती कृत्तिं वसाने त्वयि ।

धत्तूरस्पृहयालुतां त्वयि गते तत्याज कः केतकीं

स्वातन्त्र्याज्जहिहि त्वमीश्वर गुणांल्लोकोऽस्ति तद्ब्ग्राहकः ॥ १०४॥

 
छिन्त्से ब्रह्मशिरो यदि प्रथयसि प्रेतेषु सख्यं यदि
 

क्षीबः क्रीडसि मातृभिर्यदि रतिं धत्से श्मशाने यदि ।

सृष्ट्वा संहरसि प्रजा यदि तथाप्याधाय भत्क्त्या मनः

कं सेवे करवाणि किंतु जगती शून्या त्वमेवेश्वरः ॥ १०५ ॥

(इतीश्वरान्योक्तयः ।)
 

 
अथ लक्ष्म्यन्योक्तयः ।
 

 
तापापहे सहृदये रुचिरे प्रबुद्धे
 

मित्रानुरागनिरते घृधृतसद्गुणौधे ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 
घे ।
स्वाङ्गप्रदानपरिपूरितषट्पदौघे
 

युक्तं तवेह कमले कमले स्थितिर्यत् ॥ १०६ ॥
 
रला

 
रत्ना
करस्तव पिता स्थितिरम्बुजेषु
 

भ्राता सुधामयतनुः पतिरादिदेवः ।

केनापरेण कमले बत शिक्षितानि
 

सारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥ १०७ ॥
 
For Private And Personal Use Only
 
१३