This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 

 
अन्योक्तिमुक्तावली ।
 
अथेश्वरान्योक्तयः ।
तावत्सप्तसमुद्रमुद्रितमहीभूभृद्भिरअंकषै-
स्तावद्भिः परिवारिता पृथुतरैवींपैः समन्तादियम् ।
यस्य स्फारफणामणौ निलयिनी तिर्यकलङ्काकृतिः
शेषः सोऽप्यगमद्यदङ्गदपदं रुद्राय तस्मै नमः ॥ १०२ ॥
त्वं चेत्संचरसे वृषेण लघुता का नाम दिग्दन्तिनां
व्यालैः कङ्कणभूषणानि तनुषे हानिर्न हेमामपि ।
मूर्धन्यं कुरुषे जडांशुमयशः किं नाम लोकत्रयी-
दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥ १०३ ॥
बिभ्राणे त्वयि भस्म कः समभवन्मन्दादरश्चन्दने
कः क्षौमं कलयांचकार न कृती कृत्तिं वसाने त्वयि ।
धत्तूरस्पृहयालुतां त्वयि गते तत्याज कः केतकीं
स्वातन्त्र्याजहिहि त्वमीश्वर गुणांल्लोकोऽस्ति तद्ब्राहकः ॥ १०४॥
छिन्त्से ब्रह्मशिरो यदि प्रथयसि प्रेतेषु सख्यं यदि
 
क्षीबः क्रीडसि मातृभिर्यदि रतिं धत्से श्मशाने यदि ।
सृष्ट्वा संहरसि प्रजा यदि तथाप्याधाय भत्त्या मनः
कं सेवे करवाणि किंतु जगती शून्या त्वमेवेश्वरः ॥ १०५ ॥
(इतीश्वरान्योक्तयः ।)
 
अथ लक्ष्म्यन्योक्तयः ।
 
तापापहे सहृदये रुचिरे प्रबुद्धे
 
मित्रानुरागनिरते घृतसद्गुणौधे ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 
स्वानप्रदानपरिपूरितषट्पदौघे
 
युक्तं तवेह कमले कमले स्थितिर्यत् ॥ १०६ ॥
 
रलाकरस्तव पिता स्थितिरम्बुजेषु
 
भ्राता सुधामयतनुः पतिरादिदेवः ।
केनापरेण कमले बत शिक्षितानि
 
सारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥ १०७ ॥
 
For Private And Personal Use Only
 
१३