This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
पादन्यासं क्षितिरगुरोर्मूर्ध्नि कृत्वा सुमेरो-

र्ये
नाक्रान्तं क्षपिततमसा मध्यमं धाम विष्णोः ।

सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूखै-

र्
दूरारोहो भवति महतामप्यवअंभ्रंशहेतुः ॥ ८८ ॥

 
पीयूषं वपुषोऽस्य हेतुरुदयो विश्वस्य नेत्रोत्सवः

प्लष्टं भानुकरैरिदं त्रिभुवनं ज्योत्स्नाभरैः सिञ्चति ।

सर्वाशाप्रतिरोधकान्धतमसध्वंसाय बद्धोद्यमो
 
Acharya Shri Kailassagarsuri Gyanmandir
 

धिग्धातारमिहापि लक्ष्म लिखितुं यस्य प्रवृत्तं मनः ॥ ८९ ॥

 
धवलयति समग्रं चन्द्रमा जीवलोकं
 

किमिति निजकलङ्कं नात्मसंस्थं प्रमार्ष्टि ।

भवतु विदितमेतत्प्रायशः सज्जनानां
 

परहितनिरतानामादरो नात्मकार्ये ॥ ९० ॥
 

 
न चन्द्रमाः प्रत्युपकारलिप्सया करोति भाभिः कुमुदावबोधनम् ।

स्वभाव एवोन्नतचेतसामयं परोपकारव्यसनं हि जीवितम् ॥ ९९ ॥
 
१ ॥
 
दिनकरतापव्यापप्रपन्नमूर्छानि कुमुदगहनानि ।

उत्तस्थुरमृतदीधितिक्रान्तिकला सेकतस्त्वरितम् ॥ ९२ ॥

 
निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् ।

उत्पत्तिरिन्दोरपि निःफलैव दृष्टा प्रहृष्टा नलिनी न येन ॥ ९३ ॥

 
उच्चैः स्थानकृतोदयैर्बहुविधैज्र्ज्योतिभि॑िर्भिरुद्यत्प्रभैः
 

शुक्राद्यैः किममीभिरत्र वितथां प्रौढिं दधानैरपि ।

यावल्लोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते
 

तावच्चन्द्र कथं प्रयाति परमां वृद्धिधिं स रत्नाकरः ॥ ९४ ॥
 

( इति सामान्यचन्द्रान्योक्तयः ।)
 
अथ शुक्ल प्रतिपञ्चन्द्रस्य ।
 
( इति सामान्यचन्द्रान्योक्तयः ।)
 
११
 

 
त्रिनयनजटावल्लीपुष्पं निशावदनस्मितं
 

ग्रहकिसलयं संध्यानारीनितम्बनखक्षतम् ।
 
For Private And Personal Use Only