This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१०
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
नेन्दुः प्राप तथापि पानमथनाबन्धव्यथां तद्गतः

सत्यं स्यादसुखक्षणेऽपि हि सुखी नूनं कलावान्पुमान् ॥ ८१

 
नक्षत्राणि बहूनि सन्ति परितः पूर्णोदयान्यम्बरे

किं तैः शान्तिमुपैति दीर्घतिमिरं किं वाब्धिरुज्जृम्भते ।

किं स्यादार्तचकोरपारणमिदं भ्रातः सुधादीधिते

त्रैलोक्यप्रकटप्रतापशमनः श्लाध्यस्तवैवोदयः ॥ ८२ ॥

 
क्षीणश्चन्द्रो विशति तरणेर्मण्डलं मासि मासि

लब्ध्वा कांचित्पुनरपि कलां दूरदूरानुवर्ती ।

संपूर्णश्चेत्कथमपि तदा स्पर्धयोदेति भानो-
नों

र्नो
दौर्जन्याद्विरमति जडो नापि दैन्याव्य<flag></flag>रंसीत् ॥ ८३ ॥

 
येनास्यभ्युदितेन चन्द्र गमितः क्लान्तितिं रवौ तत्र ते

युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः ।

क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मना-

गस्त्वेवं जलधामता तु भवतो ययो<flag></flag>नि विस्फूर्जसे ॥ ८४ ॥

 
उत्पत्तिः पयसांनिधेर्वपुरपि ख्यातं सुधामन्दिरं
 

स्पर्धन्ते बिसबालतालसरला हारावलीमंशवः ।

कान्ताकैरविणी तव प्रियसखः शृङ्गारसारः स्मरो

हंहो चन्द्र किमत्र तापजननं तापाय यन्मे भवान् ॥ ८५ ॥

 
यज्जातोऽसि पयोनिधौ हरजटाजूटे प्रसिद्धोऽसि य-

द्विश्वस्योदरदीपकोऽसि विधिना सृष्टोऽसि यच्चामृतैः ।

भ्रा
तः शीतमयूख सर्वमधुना म्लानीकृतं तत्त्वया
 

राजीवं यदपास्य कैरवकुलं नीतं विकासास्पदम् ॥ ८६ ॥

 
लब्धं जन्म सह श्रिया स्वयमपि त्रैलोक्यभूषाकरः

स्थित्यर्थं परमेश्वरोऽभ्युपगतस्तेनापि मूर्ध्ना धृतः ।

वृद्धिधिं शीतकरस्तथापि न गतः क्षीणः परं प्रत्युत

प्रायः प्राक्तनमेव कर्म बलवत्कः कस्य कर्तुं क्षमः ॥ ८७ ॥
 
For Private And Personal Use Only