This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
चन्द्रस्तथापि हरवल्लभतामुपैति

नैवाश्रितेषु गुणदोषविचारचिन्ता ॥ ७४ ॥

 
यदपि जन्म बभूव पयोनिधौ निवसनं जगतीपतिमस्तके ।

तदपि तात पुराकृतकर्मणा पतति राहुमुखे खलु चन्द्रमाः ॥ ७५ ॥

 
उडुगणपरिवारो नायकोऽप्यौषधीना-

ममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः ।

भवति विकलमूर्तिर्मण्डलं प्राप्य भानो:
 
Acharya Shri Kailassagarsuri Gyanmandir
 

परसदननिविष्टः को न धत्ते लघुत्वम् ॥ ७६ ॥

 
इन्दुर्यद्युदयाद्विमूर्ध्नि न भवत्यद्यापि तन्मा स्म भू-

न्
नासीरेऽपि तमःसमुच्चयममूरुन्मूलयन्ति त्विषः ।

अप्यक्ष्णोर्मुद मुमुद्गिरन्ति कुमुदैरामोदयन्ते दिशः

संप्रत्यूर्ध्वमसौ तु लाञ्छनमभिव्यक्तुं प्रकाशिष्यते ॥ ७७ ॥

 
अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि
 

स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः ।

प्रोद्यन्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा-

त्फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥ ७८ ॥
 

 
प्रथममरुणच्छा यस्तावत्ततः कनकप्रभ-

स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।

उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे

सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥ ७९ ॥

 
यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपा-

मुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता ।

अयं कः संबन्धो [^१]यदनुहरते तस्य कुमुदं
 

विशुद्धाः शुद्धानां ध्रुवमनभिसंधिप्रणयिनः ॥ ८० ॥
 
पीतः पीतपयोधिनाभिमथितः पृथ्वीभृतां स्वामिना
बद्धश्चावनिनन्दिनीप्रणयिना कल्लोलिनीवल्लभः ।
 
[^
१.] 'यदनुकुरुते' इति वा पाठः,
 

 
विशुद्धाः शुद्धानां ध्रुवमनभिसंधिप्रणयिनः ॥ ८० ॥
पीतः पीतपयोधिनाभिमथितः पृथ्वीभृतां स्वामिना
बद्धश्चावनिनन्दिनीप्रणयिना कल्लोलिनीवल्लभः ।
 
For Private And Personal Use Only