This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
श्रीमत्वकीयगुरुपादकजप्रसादा-
न्मुक्तावली विरचिता कविकर्णदीप्रा ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अस्तोकलोकपरिभूषितभूमिभागे
 
माणिक्यहेममणिमौक्तिकतोरणौघे ॥ १३ ॥
 
चञ्चच्चिरत्नवररत्नसुवर्णरूप्य
 
वैडूर्यवज्ररुचिरे कमलानिवासे ।
 
उच्चैर्मनोज्ञजिनमन्दिरराजमाने
 
श्रीस्तम्भतीर्थवरमन्दिर इभ्यपूर्णे ॥ १४ ॥
 
For Private And Personal Use Only
 
१५५
 
युग्मम् ।
 
श्रीविजयानन्दगुरुपट्टक्षोणीधरेन्द्रसिंहस्य ।
 
श्रीविजयराज सूरेरादेशाद्विरचिता चेयम् ॥ १५ ॥
संविदितलक्षणादिकनिखिलग्रन्थार्थसार्थपरमार्थैः ।
श्रीदानविजयवाचकप्रष्ठैः प्रविलोकिता चैषा ॥ १६ ॥
प्राचीनामलवृत्तमौक्तिकगणैश्वेतश्चमत्कारिभि-
रेषानुक्रमलेखनेन मयका मुक्तावली निर्मिता ।
स्वस्थानं विनिवेशयन्गुरुलघुस्थित्या गुणे मौक्तिका
न्मालाकार इति प्रसिद्धिमतुलां नामोति किं मानवः ॥ १७ ॥
गुरुगुरुचरणसुवाङ्मयभक्तिप्राग्भारभरितनिजमनसा ।
प्रथमादर्श लिखिता प्रतिरेषा धीरविजयेन ॥ १८ ॥
यत्किंचिदस्यां लिखितं विहीनं मयाहि मात्रादिभिरर्थतो वा ।
विशारदैस्तत्परिशोधनीयं ग्रन्थान्तराणि प्रविलोक्य सम्यक् ॥ १९ ॥
कियदेतिकया च मया सज्जनजनरञ्जनाय जनितेयम् ।
सा दद्यादभ्युदयं सर्वाभीष्टार्थसिद्धिं च ॥ २० ॥
यावन्नन्दति मेरुर्यावज्जिनराजशासनं जगति ।
तावन्नन्दतु निपुणैरनवरतं वाच्यमानासौ ॥ २१ ॥
इत्यन्योक्तिमुक्तावलीग्रन्थप्रशस्तिः ।
समाप्ता चेयमन्योक्तिमुक्तावली ।