This page has been fully proofread once and needs a second look.

निःशेषवाङ्मयमहोदधिपारदृश्वा
सौभाग्यभाग्यपरभागनिवाससद्म ॥ २ ॥
 
तत्पट्टदेवकुञ्जरकुम्भस्थलभूषणैकमघवानः ।
समभूवन्क्षितितिलकाः सूरिश्रीविजयतिलकाह्वाः ॥ ३ ॥
 
तत्पट्टाम्बरभासनभासुरतरतरुणतरणिसंकाशाः ।
अभवञ्जगदानन्दा विजयानन्दाः परमगुरवः ॥ ४ ॥
 
निखिलजिनराजभाषितप्रवचनकलधौतकषपट्टाः ।
प्रशमसुधारससिन्धौ शारदवरविशदहिमकिरणाः ॥ ५ ॥
 
श्रीमत्सुधर्मजम्बूवज्रादिकहीरविजयसूरीशान् ।
ये स्मारयन्ति सुतरां गुणैः स्वकीयैः क्षितिख्यातैः ॥ ६ ॥
त्रिभिर्विशेषकम् ।
 
तेषां पट्टे संप्रति विजयन्ते विजयराजसूरीशाः ।
प्रतिबोधितभव्यजनाः सुधामुधाकारिवरवचसः ॥ ७ ॥
 
लब्ध्या श्रीगुरुगौतमगणधरतुल्यप्रधानमहिमानः ।
धिषणानिर्जितधिषणा जनताहितकल्पतरुकल्पाः ॥ ८ ॥
युग्मम् ।
 
तेषां सूरिवराणां राज्ये प्राज्ये च विजयिनि प्रष्ठे ।
श्रीविजयमानसूरियुवराजविराजमानविजयगणे ॥ ९ ॥
गीतिरियम् ।
 
श्रीविजयानन्दगुरोः क्रमकजहंसेन हंसविजयेन ।
अन्योक्तिमञ्जुमुक्तावली विदृब्धा परममोदात् ॥ १० ॥
 
सुललितसुवृत्तमुक्ता मुक्ताफलमालिकेव गुणयुक्ता ।
चतुरचयचारुचञ्चच्छुचिचित्रविचित्रचित्रकरी ॥ ११ ॥

युग्मम् ।
 
एषा कृता विक्रमराजराज्यात्तर्कत्रिशैलेन्दु १७३६ मिते च वर्षे ।
मुक्तावली बाहुलदिव्यमासि दीपालिकापर्वदिने प्रशस्ते ॥ १२ ॥