This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१५४
 
किंच ।
 
www.kobatirth.org.
 
काव्यमाला ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 
निःशेषवाङ्मयमहोदधिपारदृश्वा

सौभाग्यभाग्यपरभागनिवाससद्म
॥ २ ॥
 
तत्पट्टदेवकुञ्जरकुम्भस्थलभूषणैकमघवानः ।
 
॥ २ ॥
 

समभूवन्क्षितितिलकाः सूरिश्रीविजयतिलकाहाःह्वाः ॥ ३ ॥

 
तत्पट्टाम्बरभास नभासुरतरतरुणतरणिसंकाशाः ।

अभवञ्जगदानन्दा विजयानन्दाः परमगुरवः ॥ ४ ॥

 
निखिलजिनराजभाषितप्रवचनकलधौतकषपट्टाः ।

प्रशमसुधारससिन्धौ शारदवरविशदहिमकिरणाः ॥ ५ ॥

 
श्रीमत्सुधर्मजम्बूवज्रादिकहीरविजयसूरीशान् ।

ये स्मारयन्ति सुतरां गुणैः स्वकीयैः क्षितिख्यातैः ॥ ६ ॥

त्रिभिर्विशेषकम् ।
 

 
तेषां पट्टे संप्रति विजयन्ते विजयराजसूरीशाः ।

प्रतिबोधितभव्यजनाः सुधामुधाकारिवरवचसः ॥ ७ ॥

 
लब्ध्या श्रीगुरुगौतमगणधरतुल्यप्रधानमहिमानः ।
घि

धि
षणानिर्जितधिषणा जनताहितकल्पतरुकल्पाः ॥ ८ ॥
 

युग्मम् ।
 

 
तेषां सूरिवराणां राज्ये प्राज्ये च विजयिनि प्रष्ठे ।

श्रीविजयमानसूरियुवराजविराजमानविजयगणे ॥ ९ ॥
 
For Private And Personal Use Only
 

गीतिरियम् ।
 

 
श्रीविजयानन्दगुरोः क्रमकजहंसेन हंसविजयेन ।

अन्योक्तिमञ्जुमुक्तावली विदृब्धा परममोदात् ॥ १० ॥

 
सुललितसुवृत्तमुक्ता मुक्ताफलमालिकेव गुणयुक्ता ।

चतुरचयचारुचञ्चच्छुचिचित्रविचित्रचित्रकरी ॥ ११ ॥
 

 
युग्मम् ।
 

 
एषा कृता विक्रमराजराज्यात्तर्कत्रिशैलेन्दु १७३६ मिते च वर्षे ।

मुक्तावली बाहुलदिव्यमासि दीपालिकापर्वदिने प्रशस्ते ॥ १२ ॥