This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो

दूरे पुंसां वपुषि रचना पङ्कशङ्कां करोति ।

यद्यप्येवं सकलसुरभिद्रव्यगर्वापहारी
 

को जानीते परिमलगुणः कोऽपि कस्तूरिकायाः ॥ ८१ ॥

 
कस्तूरीति किमङ्गसांपरिमलद्रव्यं किमप्यामरं
 

पेया किं नहि कीदृशी मृगदृशां शृङ्गारलीलास्पदम्पदम्

धार्या कुत्र कुचस्थलीषु कुचयोः स्थौल्यं ततो हीयते

क्लिष्टः क्लिश्यति पक्कणैश्च बहुशः कस्तूरिका विक्रयी ॥ ८२ ॥

 
कर्पूर रे परिमलस्तव मर्दित
स्य
श्रीखण्ड रे परिमलस्तव घर्षितस्य ।

रे फाकाकतुण्ड तव वह्निगतस्य गन्धः

कस्तूरिका स्वयमथाधितगन्धदृष्टा ॥ ८३ ॥
 
१५१
 

 
जनिस्थानं सिन्धुः सकलजलजस्यास्पद महो

सुधालक्ष्मीचन्द्र त्रिदशपतिवैद्यप्रभृतयः ।

अमी सोदर्यास्ते त्रिनयनगले वास वसुधा

तथापि त्वं हालाहल निजगुणान्मुञ्चसि न किम् ॥ ८४ ॥
 
For Private And Personal Use Only
 

 
नद्याश्रयस्थितिरियं तव कालकूट

केनोत्तरोत्तरविशेषपदप्रतिष्ठा ।
'

प्राङ्गणस्य हृदये वृषलक्ष्मणोऽथ

कण्ठे पुनर्वससि वाचि ततः खलानाम् ॥ ८५ ॥

 
कौस्तुभमुरसि मुरारेः शिरसि शशी द्योतते पुरां जयिनः ।

तनुजन्मानौ जलधेर्जग्मतुरियतीं गतिं पश्य ॥ ८६ ॥

 
तुल्यं भूभृति जन्म तुल्यमुभयोर्मूल्यं च तुल्यं वपु-

स्तुल्यं दार्ढ्यमुदग्रटङ्कदलनं तुल्यं च पाषाणयोः ।

एकस्याखिलवन्दनाय विधिना देवत्वमारोपितं
 

तद्द्वारे विहिता परस्य तु पदाघातास्पदं देहली ॥ ८७ ॥