This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो
दूरे पुंसां वपुषि रचना पङ्कशङ्कां करोति ।
यद्यप्येवं सकलसुरभिद्रव्यगर्वापहारी
 
को जानीते परिमलगुणः कोऽपि कस्तूरिकायाः ॥ ८१ ॥
कस्तूरीति किमङ्गसांपरिमलद्रव्यं किमप्यामरं
 
पेया किं नहि कीदृशी मृगदृशां शृङ्गारलीलाम्पदम् ।
धार्या कुत्र कुचस्थलीषु कुचयोः स्थौल्यं ततो हीयते
क्लिष्टः क्लिश्यति पक्कणैश्च बहुशः कस्तूरिका विक्रयी ॥ ८२ ॥
कर्पूर रे परिमलस्तव मर्दित
श्रीखण्ड रे परिमलस्तव घर्षितस्य ।
रे फाकतुण्ड तव वह्निगतस्य गन्धः
कस्तूरिका स्वयमथाधितगन्धदृष्टा ॥ ८३ ॥
 
१५१
 
जनिस्थानं सिन्धुः सकलजलजस्यास्पद महो
सुधालक्ष्मीचन्द्र त्रिदशपतिवैद्यप्रभृतयः ।
अमी सोदर्यास्ते त्रिनयनगले वास वसुधा
तथापि त्वं हालाहल निजगुणान्मुञ्चसि न किम् ॥ ८४ ॥
 
For Private And Personal Use Only
 
नद्याश्रयस्थितिरियं तव कालकूट
केनोत्तरोत्तरविशेषपदप्रतिष्ठा ।
'प्राङ्गणस्य हृदये वृषलक्ष्मणोऽथ
कण्ठे पुनर्वससि वाचि ततः खलानाम् ॥ ८५ ॥
कौस्तुभमुरसि मुरारेः शिरसि शशी द्योतते पुरां जयिनः ।
तनुजन्मानौ जलधेर्जग्मतुरियतीं गतिं पश्य ॥ ८६ ॥
तुल्यं भूभृति जन्म तुल्यमुभयोर्मूल्यं च तुल्यं वपु-
स्तुल्यं दामुदमटङ्कदलनं तुल्यं च पाषाणयोः ।
एकस्याखिलवन्दनाय विधिना देवत्वमारोपितं
 
तद्द्वारे विहिता परस्य तु पदाघातास्पदं देहली ॥ ८७ ॥