This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
१५०
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
निर्गुणोऽपि वरं वंशो रक्षायै मुनिदण्डवत् ।
सगुणोऽप्यर्धवंशः स्याज्जीवघाताय केवलम् ॥ ७२ ॥
शुद्धवंशजकोदण्डसरलस्त्वमभूः पुरा ।
इदानीं गुणसंयोगात्केयं तु तव वक्रता ॥ ७३ ॥
कोटिद्वयस्य लाभेऽपि नतं सद्वंशजं धनुः ।
शरस्त्ववंशजः स्तब्धो लक्ष्याप्तेरपि शङ्कया ॥ ७४ ॥
या पाणिग्रहलालिता गुणवती साध्वी च सल्लक्षणा
गौरी स्पर्शसुखावहातिसरला तन्वी सुवंशोद्भवा ।
सा केनापि हृता तया विरहितो गन्तुं न शक्तः क्षणं
किं भिक्षो तव कामिनी नहि नहि प्राणप्रिया यष्टिका ॥ ७५ ॥
जगति विदितमेतत्काष्ठमेवासि मन्ये
 
तदपि हि किल सत्यं यद्वने वर्धितासि ।
नवकुवलयनेत्रापाणिसङ्गोत्सवेऽस्मिन्
 
मुशल किसलयं ते तत्क्षणाद्यन्न जातम् ॥ ७६ ॥
 
घनसारो नद्धश्च तथा न वदति तदपि मृदङ्गः
करतलहननमुपेत्य यदि प्रणदति तदपि सरङ्गः ॥ ७७ ॥ (?)
अनिल निखिलविश्वं प्राणिति त्वत्प्रयुक्तं
 
सपदि च विनिमीलत्याकुलं त्वद्वियोगात् ।
वपुरपि परमेशस्योचितं नोचितं ते
 
सुरभिमसुरभिं वा यत्त्वमङ्गीकरोषि ॥ ७८ ॥
जातिस्तावदुदारभूरुहभवो वर्णः शशाङ्कोज्ज्वलः
 
सौरभ्यातिशयः स कोऽपि भणितुं यो नैव वाचां पतिः ।
आखादोऽपि मनोहरस्तव सखे कर्पूर किं वर्ण्यते
 
केयं कुप्रकृतिः स्थिरीभवसि यन्निर्लक्षणाङ्गारतः ॥ ७९ ॥
अपि त्यक्तासि कस्तूरि पामरैः पङ्कशङ्कया ।
 
अलं खेदेन भूपालाः किं न सन्ति महीतले ॥ ८० ॥
 
For Private And Personal Use Only