This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
रक्षापात्रगतं स्नेह प्रदीपश्रीविवर्धनम् ।

भविष्यति विना तेन भस्मत्वं भवतो गुणाः ॥ ६३ ॥

 
तिग्मांशोः किरणैरतीव सहितो गाढप्रतापो महा-

नङ्गारैरपि भर्जनं च तलनं तैले कटाहस्थिते ।

हंहो पर्पट सांप्रत परजनस्यार्थे सहे यत्त्वया
 
१४९
 

दंष्ट्रान्तः पतितेन गाढरटितं घिधिग्लज्जितास्तद्वयम् ॥ ६४ ॥

 
को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण ।

तप्तं विकृतं मथितं केवलमुद्भिगिरति यत्स्नेहम् ॥ ६५ ॥

 
दृढतरगलक निबन्धः कूपनिपातोऽपि कलश ते धन्यः ।

यज्जीवनदानैस्त्वं तर्षामर्षं नृणां हंसि ॥ ६६ ॥

 
कुद्दालेन विदारणं किमपरं कष्टं खरारोहणं
 
For Private And Personal Use Only
 

यत्पापिष्ठकुलालपादहननं चक्रश्भ्रमस्तादृशः ।

दाघो मे दहनस्य पीड्यति तनुं सर्वं सहामो वयं

ग्राम्यस्त्रीकरताडनं विधिपरं पर्यन्त दुःखायते ॥ ६७ ॥

 
गुणयुक्तोऽप्यधो याति रिक्तकुम्भ इव स्फुटम् ।

पूर्णो गुणविहीनोऽपि जनैः शिरसि धार्यते ॥ ६८ ॥

 
सद्वृत्तोऽपि सुपूर्णोऽपि विदग्धो रागवानपि ।

गृहीतुं शक्यते केन पार्थिवः कर्णदुर्बलः ॥ ६९ ॥

 
यत्सद्गुणोऽपि सरलोऽपि तटस्थितोऽपि

वंशोद्गतोऽपि विदधाति नृशंसकर्म ।

वक्रात्मनो बडिशदण्ड तदेतदस्य
 

जानामि संगतिफलं तव कण्टकस्य ॥ ७० ॥

 
कम्बाघातैर्वपुषि निहतैरुच्छलच्छोणितौघैः

कारागारैर्निभिडनिगडैर्लङ्घनं चुम्बनं च ।

एवं ज्ञात्वा विरम सुमते मा कुरु त्वं नियोगं

कर्णोपान्ते मलिनवदना लेखिनी पूत्करोति ॥ ७१ ॥