This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
रक्षापात्रगतं स्नेह प्रदीपश्रीविवर्धनम् ।
भविष्यति विना तेन भस्मत्वं भवतो गुणाः ॥ ६३ ॥
तिग्मांशोः किरणैरतीव सहितो गाढप्रतापो महा-
नङ्गारैरपि भर्जनं च तलनं तैले कटाहस्थिते ।
हंहो पर्पट सांप्रत परजनस्यार्थे सहे यत्त्वया
 
१४९
 
दंष्ट्रान्तः पतितेन गाढरटितं घिग्लज्जितास्तद्वयम् ॥ ६४ ॥
को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण ।
तप्तं विकृतं मथितं केवलमुद्भिरति यत्स्नेहम् ॥ ६५ ॥
दृढतरगलक निबन्धः कूपनिपातोऽपि कलश ते धन्यः ।
यज्जीवनदानैस्त्वं तर्षामर्ष नृणां हंसि ॥ ६६ ॥
कुद्दालेन विदारणं किमपरं कष्टं खरारोहणं
 
For Private And Personal Use Only
 
यत्पापिष्ठकुलालपादहननं चक्रश्रमस्तादृशः ।
दाघो मे दहनस्य पीड्यति तनुं सर्व सहामो वयं
ग्राम्यस्त्रीकरताडनं विधिपरं पर्यन्त दुःखायते ॥ ६७ ॥
गुणयुक्तोऽप्यधो याति रिक्तकुम्भ इव स्फुटम् ।
पूर्णो गुणविहीनोऽपि जनैः शिरसि धार्यते ॥ ६८ ॥
सद्वृत्तोऽपि सुपूर्णोऽपि विदग्धो रागवानपि ।
गृहीतुं शक्यते केन पार्थिवः कर्णदुर्बलः ॥ ६९ ॥
यत्सद्गुणोऽपि सरलोऽपि तटस्थितोऽपि
वंशोगतोऽपि विदधाति नृशंसकर्म ।
वक्रात्मनो बडिशदण्ड तदेतदस्य
 
जानामि संगतिफलं तव कण्टकस्य ॥ ७० ॥
कम्बाघातैर्वपुषि निहतैरुच्छलच्छोणितौघैः
कारागारैर्निभिडनिगडैर्लङ्घनं चुम्बनं च ।
एवं ज्ञात्वा विरम सुमते मा कुरु त्वं नियोगं
कर्णोपान्ते मलिनवदना लेखिनी पूत्करोति ॥ ७१ ॥