This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१४६
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
मुहुः कुर्वन्गीतं कुचकलशपीठोपरि लुठ-

न्नये वीणादण्ड प्रकटय फलं कस्य तपसः ॥ ३९ ॥

 
यत्पूर्वं पवनाग्निशस्त्रसलिलैश्चीर्णं तपो दुष्करं

तस्यैतत्फलमीदृशं परिणतं यज्जातरूपं वपुः ।

मुग्धापाण्डुकपोलचुम्बनसुखं सङ्गश्च रत्नावलेः

प्राप्तं कुण्डल वाञ्छसे किमपरं यन्मूढ दोलायसे ॥ ४० ॥

 
पृच्छे कः पुरुषः स भोगचतुरो दुस्तस्तपोऽङ्गीकृत-

मुग्रं तापकृतं सकर्णचटनं नानाविधं मेनका ।

सभ्रूरुत्तडितं सयोषिति प्रियाश्चुम्बन्ति गल्लस्थले

कामिन्याधरपानयन्ति मनसा तेनापि डोलायते ॥ ४१ ॥ (?)

 
स्पृशति शीतकरो जघनस्थलीमुचितमेव तदस्य कलङ्किनः ।

गुणवतस्तव हार न युज्यते परकलत्रकुचद्वयपीडनम् ॥ ४२ ॥

 
पतितानां संसर्गे त्यजन्ति दूरेण निर्मला गुणिनः ।

इति कथयन्रजनीनां हारः परिहरति कुचयुगलम् ॥ ४३ ॥

 
सद्वृत्त सद्गुण महर्ध महार्हकान्ते

कान्ताघनस्तनतटोचित चारुमूर्ते ।
 

आः पामरीकठिनकण्ठविलग्न
 
ग्न
हा हार हारितमहो भवता गुणित्वम् ॥ ४४ ॥

 
असद्वृत्तो नायं न च खलु गुणैरेष रहितः
 

प्रिये मुक्ताहारस्तव चरणमूले निपतितः ।

गृहाणामुं बाले तव पततु कण्ठं पुनरसा-
बु

वु
पायो नैवान्यस्तव हृदयतापोपशमने ॥ ४५ ॥

 
नैषा वेगं मृदुतरतनुस्तावकीनं विसोढुं

शक्ता नैनां चपल नितरां खेदयेन्दीवराक्षीम् ।

रत्यभ्यासं विदधत इति प्राणनाथस्य कर्णो-

पान्ते गत्वा निभृतनिभृतं नूपुरं शंसतीव ॥ ४६ ॥
 
For Private And Personal Use Only