This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१४४
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला
 
कथयत इव नेत्रे कर्णमूलं प्रयाते

सुमुखि तव कुचाभ्यां वर्त्य पश्यावनीं[^१] वा ।

स्खलति यदि कथंचित्ते पदाम्भोजयुग्मं
 

तव तनुतरमध्यं भज्यते नौ न दोषः ॥ २० ॥

 
यथा यथा स्यात्स्तनयोः समुन्नतिस्तथा तथा लोचनमेति वक्रताम् ।

अहो सहन्ते बत नो परोदयं निसर्गतोन्तर्मलिना ह्यसाधवः ॥ २१ ॥

 
बाले तव कुचावेतौ नियतौ चक्रवर्तिनौ ।
 

आसमुद्रकरग्राही देवो यस्य करप्रदः ॥ २२ ॥

 
निगदितुं विधिनापि न शक्यते सुभटता कुचयोः कुटिलभ्रुवाम् ।

सुरतसंगतया प्रियपीडितौ बत नतिं न गतौ च्युतकञ्चुकौ ॥ २३ ॥

 
अणुरायरयणभरियं कञ्चणकलसावि तरुणिथणजुअलम् ।

ता किं मुहम्मि कालं मसि मुद्दामयणरायस्स ॥ २४ ॥

 
अङ्गानि मे दहतु कान्तवियोगवह्निः
 

संरक्ष्यतां प्रियतमो हृदयस्थितो मे ।

इत्याशया शशिमुखी गलदश्रुवारि-

धाराभिरुष्णमभिसिञ्चति हृत्प्रदेशम् ॥ २५ ॥
 

 
उपरिनाभिसरः परिताडिता पटकुटीव मनोभवभूपतेः ।

विजयिनस्त्रिपुरारिविजी (जिगी) षया तव विराजति भामिनि कञ्चुकी २६ ॥

 
यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणी-

कपोले व्यासङ्गं कुचकलशमस्याः कलयति ।

ततः श्रोणीबिम्बं व्यवसित विलासं तदुचितं
 

स्वभावस्वच्छानां विपदपि विलासं वितरति ॥ २७ ॥

 
धनिनि जने चटु पटुतां जल्पतु रसना रसाशने लुब्धा ।

त्वमशनपाननिरस्तमस्तकचरणे कथं लुठसि ॥ २८ ॥

 
एते कूर्चकचाः सकङ्कणरणत्कर्णाटसीमन्तिनी-

हस्ताकर्षणलालिताः प्रतिदिनं प्राप्ताः परामुन्नतिम् ।
 

 
[^
]. 'पश्यावरुद्धम्' इत्युचितं प्रतिभाति,
 
For Private And Personal Use Only
 
.