This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१४२
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
नमाम्यहं महावीरं दयावन्तं जिनेश्वरम् ।

सूरवत्तेजसां पूरं रिक्तं पापैः शिवंकरम् ॥ ४ ॥

 
सेवितं साधुनिःस्फारं वर्यातिशयभासुरम् ।

कल्याणाचलवद्धीरं हंसगत्या मनोहरम् ॥ ५ ॥

 
सर्वधर्मोपदेष्टारं विशिष्टज्ञानमन्दिरम् ।

जराभीरुविजेतारं यत्याचारैकतत्परम् ॥ ६ ॥
 

(चतुर्भि: कलापकम् ।)
 

 
स्वगुरुनामगर्भितं कर्तृनामगर्भितं च षोडशदलकमलबन्धचित्रम् ।

श्रीगौतमगणाधीशसमान महिमालयम् ।

विजयानन्दसूरीन्द्रं शंकरं समुपास्महे ॥ ७ ॥

अथ प्रतिद्वारवृत्तानि ।
 

 
अथाष्टमपरिच्छेदे प्रतिद्वारस्य पाटिकाम् ।
 

प्राज्ञप्रीतिप्रदे (दां) वै[^१]वच्मि हृद्यपद्यपदैः स्फुटम् ॥ ८ ॥

 
तत्रान्योक्तिषु विज्ञेया बुद्धिबोधविवृद्धये ।

मरुस्थलीभवान्योक्तिः संकीर्णान्योक्तयः पुनः ॥ ९ ॥

 
अथ मरुस्थलान्योक्तयः ।
 

मरौ नास्त्येव सलिलं कृच्छ्राद्यद्यपि लभ्यते ।

तत्कटु स्तोकमुष्णं च न करोति वितृष्णताम् ॥ १० ॥

 
पायं पायं पिब पि पयः सिञ्च सिञ्चाङ्गमङ्गं
 

भूयो भूयः कुरु कुरु सखे मज्जनानि (?) नितान्तम् ।

एषा शेषश्रमशमपटुर्दुःखिताध्वन्यबन्धुः
 

सिन्धुर्दूरीभवति भवतो मारवः पान्थ पन्थाः ॥ ११ ॥

 
भो भो... किमकाण्ड एव पतितस्त्वं पान्थ कान्या गति-

स्तत्तादृक् तृषितस्य ते खलमतिः सोऽयं जलं गूहते ।

आस्थानोपगतामकालसुलभां तृष्णां प्रतिक्रुध्महे (?)

त्रैलोक्यप्रथितप्रभावमहिमा मार्गो ह्यसौ मारवः ॥ १२ ॥

 
[^
, ब] वचिधातुना वर्तमानाविभक्तेरुत्तम पुरुषैकवचनारूढेनाहमिति कर्तृपदं सूचितम्.
 
For Private And Personal Use Only