2023-02-21 15:48:41 by ambuda-bot
This page has not been fully proofread.
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
संप्राप्तोऽर्थो जनेभास्तदनु च निखिला येन भुक्ता दिन श्रीः
संप्रत्यस्तंगतोऽसौ हतविधिवशतः शोचनीयो न भानुः ॥ ५४ ॥
पूर्वाह्णे प्रतिबोध्य पङ्कजवनान्युत्सार्य नैशं तमः
कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा ।
मध्याहे सरितां जलं प्रविसुतैरापीय दीप्तैः करैः
सायाह्ने रविरस्तमेति विवशः किं नाम शोच्यं भवेत् ॥ ५५ ॥
येनोदितेन कमलानि विकासितानि
तेजांसि येन निखिलानि निराकृतानि ।
येनान्धकारनिकरप्रसरो निरुद्धः
सोऽप्यस्तमाप हतदैववशाद्दिनेशः ॥ ५६ ॥
ताटङ्कं किमु पद्मरागरचितं प्राचीकुरङ्गीदृशः
शच्याः क्रीडनकन्दुकः सुरसरित्प्रोत्फुल्लरक्तोत्पलम् ।
रागः कोकयुगस्य किं दिनमहीपालस्य सिंहासनं
ध्वान्तानेकपकुम्भपाटनपटुः कण्ठीरवः किं रविः ॥ ५७ ॥
दक्षिणां सुतवधूं गतो रविः कालतो गतरुचिस्ततोऽभवत् ।
तत्प्रमाष्टुमिव पातकं महन्मन्दमेति शिवसन्निधिं दिशम् ॥ ५८ ॥
न्याय्यं यत्तमसः समूलहननं भास्वंस्त्वया तन्यते
नैतच्चारुतरं स्वजातिसकलज्योतींषि मुष्णासि यत् ।
युक्तं बाखिललोकमस्तकपदं व्याघातुमिच्छोर्यतः
किं तेजः किमु पूर्णताक उदयः खल्पे परे जीवति ॥ ५९ ।
( इति सूर्यान्योक्तयः ।)
अथ सामान्यचन्द्रान्योक्तयः ।
आलोकवन्तः सन्त्येव भूयांसो भास्करादयः ।
कलावानेव तु ग्रावद्रावकर्मणि कर्मठः ॥ ६० ॥
दैवाद्यद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहः ।
तथापि किं कपालानि तुलां यान्ति कलानिधेः ॥ ६१ ॥
For Private And Personal Use Only
७