This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
एके केचित्सुगुणग्रथिता दुस्तरं तारयन्ति

केषामन्ये ज्वलितहृदया रक्तमन्ये पिबन्ति ॥ २५३ ॥

 
सर्वास्तुम्ब्यः समकटुरसास्तुम्बिवल्लिप्रसूता-

स्तासां बद्धा अपि कतिपया दुस्तरं तारयन्ति ।

शब्दायन्ते सरसमपराः शुष्ककाष्ठे निषण्णा-
Acharya Shri Kailassagarsuri Gyanmandir
 

स्तन्मध्येऽन्या ज्वलितहृदयाः शोणितं संपिबन्ति ॥ २५४ ॥

 
पिच्छसहीतुम्बणिया भूयंमुत्तूण निम्बमारुहिया ।

एयाए न हुहुत्तं सरिसा सरिसेहिं रच्चन्ति ॥ २५५ ॥
 

इति तुम्ब्यन्योक्तयः
 

 
अथ कारेल्याः ।
 

रे कारेल्लि हयासे चडिया निम्बम्मि पायवे पउरे ।

अहवा तुज्झ न दोसो सरिसा सरिसेहिं रच्चन्ति ॥ २५६ ॥

अथ कोहलिन्याः ।
 
१ यां लक्ष्मीं करोतीति तम्.
 

 
पत्तावरिओ बहुसहसाहिओ पिच्छिऊण मारुहसु ।

कोहलिणि किं न याणसि परण्डो तुह भरं सहइ ॥ २५७ ॥
 

 
इति श्रीमत्तपागच्छाधिराजश्री

गौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारक-

वृन्दारकराजपरमगुरुभहाट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्य-

पण्डितहंसविजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां वनस्पतिका

यिकान्योक्तिनिरूपकः सप्तमः परिच्छेदः ॥
 

 
अष्टमः परिच्छेदः ।
 

जय श्री सौख्य संतान सर्वसम्पत्तिदायिने ।

नमोऽस्तु भुजगाधीशध्वजाय परमेष्ठिने ॥ १ ॥

 
विदिताखिलसद्वस्तुसार संसारतारक ।

करुणाकर मां पार्श्व सौम्यदृष्ट्या विलोकय ॥ २ ॥

 
श्रीसंयुक्तं गुणागारं विश्वव्यापियशोभरम् ।

जनानां जयदातारं यौ[^१]याकरं व्रतिनां वरम् ॥ ३ ॥
 

 
[^
४१
 
For Private And Personal Use Only
 
] यां लक्ष्मीं करोतीति तम्.