This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
एके केचित्सुगुणग्रथिता दुस्तरं तारयन्ति
केषामन्ये ज्वलितहृदया रक्तमन्ये पिबन्ति ॥ २५३ ॥
सर्वास्तुम्ब्यः समकटुरसास्तुम्बिवल्लिप्रसूता-
स्तासां बद्धा अपि कतिपया दुस्तरं तारयन्ति ।
शब्दायन्ते सरसमपराः शुष्ककाष्ठे निषण्णा-
Acharya Shri Kailassagarsuri Gyanmandir
 
स्तन्मध्येऽन्या ज्वलितहृदयाः शोणितं संपिबन्ति ॥ २५४ ॥
पिच्छसहीतुम्बणिया भूयंमुत्तूण निम्बमारुहिया ।
एयाए न हुहुत्तं सरिसा सरिसेहिं रच्चन्ति ॥ २५५ ॥
 
इति तुम्ब्यन्योक्तयः
 
अथ कारेल्याः ।
 
रे कारेल्लि हयासे चडिया निम्बम्मि पायवे पउरे ।
अहवा तुज्झ न दोसो सरिसा सरिसेहिं रच्चन्ति ॥ २५६ ॥
अथ कोहलिन्याः ।
 
१ यां लक्ष्मीं करोतीति तम्.
 
पत्तावरिओ बहुसहसाहिओ पिच्छिऊण मारुहसु ।
कोहलिणि किं न याणसि परण्डो तुह भरं सहइ ॥ २५७ ॥
 
इति श्रीमत्तपागच्छाधिराजश्री
गौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारक-
वृन्दारकराजपरमगुरुभहारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्य-
पण्डितहंसविजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां वनस्पतिका
यिकान्योक्तिनिरूपकः सप्तमः परिच्छेदः ॥
 
अष्टमः परिच्छेदः ।
 
जय श्री सौख्य संतान सर्वसम्पत्तिदायिने ।
•नमोऽस्तु भुजगाधीशध्वजाय परमेष्ठिने ॥ १ ॥
विदिताखिलसद्वस्तुसार संसारतारक ।
करुणाकर मां पार्श्व सौम्यदृष्टया विलोकय ॥ २ ॥
श्रीसंयुक्तं गुणागारं विश्वव्यापियशोभरम् ।
जनानां जयदातारं यौकरं व्रतिनां वरम् ॥ ३ ॥
 
१४१
 
For Private And Personal Use Only