This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
अथ कण्टकारिकायाः ।

उचितं नाम नारिङ्ग्यां(?)
केतक्यामपि कण्टकाः ।

रसगन्धोज्झिते किं ते कण्टकाः कण्टकारिके ॥ २४१ ॥
 
१३९
 

 
अथ शणस्य ।
 

भूर्जः परोपकृतये निजकवच विकर्तनं सहते ।
 

परबन्धनाय च शणः प्रेक्षध्वमिहान्तरं कीदृक् ॥ २४२ ॥

 
अथ धत्तूरान्योक्तयः ।
 

छाया कापि न पल्लवेषु सुमनः स्तोमेषु नो सौरभो-

द्गारः कोऽपि फलेषु कापि महती वार्ता न तां ब्रूमहे ।

धत्ते त्वां शिरसा तथापि हि हरस्त्यक्त्वा पुनः केतकीं

तन्नूनं कनकद्रुमात्र भवता नाम्ना जगद्वश्चितम् ॥ २४३ ॥

 
धत्तूर धूर्त तरुणेन्दुनियावासभूमौ
 

भाले पिशाचपतिना खलु निर्मितोऽसि ।

किं कैरवाणि विकसन्ति तमः प्रयाति
 

चन्द्रोत्पलो द्रवति वार्धिरुपैति वृद्धिम् ॥ २४४ ॥

 
महेशस्त्वां धत्ते शिरसि रसराजस्य जयिनी

विशुद्धिस्त्वत्सङ्गात्कनकमयमेतत्रिभुवनम् ।

तनोति त्वत्सेवां न तु कनकवृक्ष त्वदपरः
 

परस्तको नु स्याद्यदि न सुलभीभावमभजः ॥ २४५ ॥

इति धत्तूरान्योक्तयः ।
 
For Private And Personal Use Only
 

 
अथ तृणान्योक्तयः ।
 

जीमूतोन्मुक्तमुक्ताफलकणतुलितस्थूलसूक्ष्मोदबिन्दु-

श्रेणीपातैः प्रभूतैर्वियत इतइतो जातसेकातिरेका ।

किं च प्राचीमभीष्मोष्मकतपनमहादाहसंदोहरिक्ता

सूते यद्भूतधात्री तदिदमपि तृणं किं न वर्ण्यं सकर्णैः ॥२४६॥
 

 
[^
,]. 'नारङ्गे' इति भवेत्.