This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१३८
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
अथ विजयायाः ।
 

 
विजया गुणाणमूलं तरुअरमब्भम्मि उब्भओ हत्थो ।

अत्थय कोइ समत्थो मुं सत्थिथिं पल्लए बत्थो ॥ २३४ ॥

 
अथ तमाकोः ।
 

 
भ्रातः कस्त्वं तमाकू सुहृदिह गमनं ते कुतोऽम्भोधिपारा-

तकस्य त्वं दण्डधारी न हि तव विदितं श्रीकलेरेव राज्ञः ।

चातुर्वर्ण्यं विधिविरचितं भिन्नभिन्नैक भूत-

मेकीकर्तुं जगति सकले शासनादागतोऽस्मि ॥ २३५ ॥

 
अथ लशुनस्य ।
 

 
कर्पूरधूलीरचितालवाल: कस्तूरिकाचर्चितदोहदश्रीः ।

क(का)श्मीरनीरैरभिषिच्यमानः प्राच्यं गुणं मुञ्चति किं पलाण्डुः ॥२३६॥

 
अथ कर्पासान्योक्तयः ।
 

नीरसान्यपि रोचन्ते कर्पासस्य फलानि नः ।

येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ २३७ ॥

 
श्लाघ्यं कर्पासफलं यस्य गुणै रन्ध्रपिहितानि ।

मुक्ताफलानि तरुणीकुचकलशे सुष्ठु विलसन्ति ॥ २३८॥

 
निष्पेषोत्थमहाव्यथा परतरं प्राप्तं तुलारोहणं
 

ग्राम्यस्त्रीनखलुञ्चनव्यतिकरस्तन्न्रीप्रहारव्यथा ।

मातङ्गोज्झिततुण्डवारिकणिकापानं च कूर्चाहतिः

कर्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम् ॥२३९॥

इति कर्पासान्योक्तयः ।
 

 
अथारिष्टस्य ।
 

निक्षे ( क्षि) प्योष्णजले त्वचं तव परित्वक्षन्ति ये निष्कृपा-

स्तेषामप्युपकुर्तांशुकमलप्रक्षालनादुच्चकैः ।

उत्कीर्णैरपि तन्तुभिर्निगदि (लि)तैरप्यस्थिभिः प्राणिनां

चक्षुर्दोषहृता सतां धुरि धृतारिष्ट त्वयैव स्थितिः ॥ २४० ॥
 
For Private And Personal Use Only