This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अथ यवासस्य ।
 

परवित्तव्ययं दृष्ट्वा खिद्यन्ते ह्यधमा जनाः ।

वर्षा वर्षति पर्जन्यो यवासोऽपि प्रणश्यति ॥ २२६ ॥
 

 
अथ यवस्य ।
 

वीवाहादौ प्ररोहस्तव यव शिवकृन्मङ्गलं स्वस्तिकाद्यैः
 

स... भूतः पितॄणां दहनमुखगतो देवतानामभीष्टः ।

पाणौ त्वक्ष्मरेखा धनविभवकृते वैभवं किं स्तुमस्ते

हस्ते बद्धः प्रशस्तः कथित इह जनैः शीतलोऽश्वप्रियश्च ॥ २२७॥

 
अथ शालेः ।

शाखासंततिसंनिरुद्धमनसो भूयांस एवावनौ
 

विद्यन्ते तरवः फलैरविकलैरार्तिच्छिदः प्राणिनाम् ।

किंतु द्वित्रिदलैरलंकृततनोः शालेः स्तुमस्तुङ्गतां

दत्त्वा येन निजं शिरः सुकृतिना को नाम न प्रीणितः ॥ २२८॥

 
स्नेहं विमुच्य सहसा खलतां भजन्ते
 

ये गाढपीडनवशान्न वयं तिलास्ते ।

अस्मानवेहि कलमानलमाहतानां
 

येषां प्रचण्डमुशलैरवदाततैव ॥ २२९ ॥

 
अथ तिलस्य ।
 

 
होहित्ति खलो मुणिऊण कारणं जन्त एहिं दिवसेहिम् ।

फलिओवि तेहिं मुक्को तिलविडवो सव्वपत्तेहिम् ॥ २३० ॥

 
खलसङ्गे परिचत्ते पिच्छहतिल्लेण जं फलं पत्तम् ।

मयणाहिसुरहिवासिय पहुसीसं पामियं तेण ॥ २३१ ॥

 
अथ मञ्जिष्ठायाः ।
 

देशत्यागं वह्नितापं कुट्टनं च मुहुर्मुहुः ।
 

रागातिरेकान्मञ्जिष्ठाप्यश्नुते किं पुनः पुमान् ॥ २३२ ॥

 
रागो हि दोषपोषाय चेतनारहितेष्वपि ।
 

मञ्जिष्ठा कुट्टनस्थानअंभ्रंशतापसहा भृशम् ॥ २३३ ॥
 
२७
 
For Private And Personal Use Only