This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
अङ्गीकृतः स भवता यदयं करीर:
क्रूरोऽपि कल्पतरुगौरवमभ्युपैति ॥ २१९ ॥
वरं करीरो मरुमार्गवर्ती यः पान्थसार्थं कुरुते कृतार्थम् ।
किं कल्पवृक्षैः कनकाचलस्थैः परोपकारव्रतलम्भदुःस्थैः ॥ २२० ॥
अपरतरुनिकरमुक्तं मरुमण्डलमावसत्यसावेकः ।
फलकुसुमैरुपकुर्वन्नररि (?) करीरः कथं धीरः ॥ २२१ ॥
 
( इति करीरान्योक्तयः )
 
अथ कण्टकस्य ।
 
रे कण्टकैर्निशित दुर्धरकोटिभाग-
र्मार्ग निपत्य किमुपार्जितमेभिरत्र ।
विद्धानि साधुजनपादतलानि ताव-
दन्यन्निजस्य वदनस्य कृतश्च भङ्गः ॥ २२२ ॥
अथ कन्धेर्या ।
 
नारङ्गिकुसुमकण्टो के इय कुसुमस्स कण्टओ जुत्तो।
रसरहिय गन्धवज्जिय कन्थेरियकण्टओ कीस ॥ २२३ ॥
अथ बिल्वस्य ।
 
आमोदीनि सुमेदुराणि च मृदुखादूनि च मारुहा
मुद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि ।
किंतु श्रीफलता तवैव जयिनी मालूर दिङ्मण्डले
यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः ॥ २२४ ॥
अथार्कस्य ।
 
अर्काः किं फलसंचयेन भवतां किं वः प्रसूनैर्नवैः
किं वा भूरिलताचयेन महता गोत्रेण किं भूयसा ।
येषामेकतमो बभूव स पुनर्नैवास्ति कश्चित्कुले
 
छायायामुपविश्य यस्य पथिकास्तृप्तिं फलैः कुर्वते ॥ २२५ ॥
 
For Private And Personal Use Only