This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
कण्टिल्लो सकलाओ तुच्छफलो लहुअ पत्तपरिवारो ।

बाउलफलं अदिन्तो अन्नाणवि अट्टुओ होसि ॥ २११ ॥

 
अच्छउता सरसफलं दायव्वं पन्थियाणसउणाणम् ।

इयरतरुवारणत्थं बब्बूलो पिच्छ कण्टइओ ॥ २१२ ॥
 

( इति बब्बूलान्योक्तय: )
 

 
अथ शाखोटस्य ।
 

 
कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं

वैराग्यादिव वक्षि साधु विदितं कस्मादिदं भाषसे ।

वामेनात्र वटस्तमध्वगजन: सर्वात्मना सेवते
 

न छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥ २१३ ॥

अथ चिश्चिण्याः ।
 

 
गुरुओवि न सेविज्जइ जो लहुपत्तेहिं होइ परिवरिओ ।

पत्तविसेसे चिञ्चिणि वङ्कं चुङ्कं फलं देइ ॥ २१४ ॥

 
अथ करीरान्योक्तयः ।
 

फलं दूरतरेऽप्यास्तां पुष्णासि कुसुमैर्जनान् ।

इतरे तरवो मन्ये करीर तव किंकराः ॥ २१५ ॥

 
किं पुष्पैः किं फलैस्तस्य करीरस्य दुरात्मनः ।

येन वृद्धिं समासाद्य न कृतः पात्रसंग्रहः ॥ २१६ ॥

 
यद्यपि वसति करीरतरुर्मरुदचलस्य सदेशम् ।

तदपि न याति स जातिगुणादमरद्रुमगुणलेशम् ॥ २१७ ॥

 
पत्रं न चित्रमपि निस्त्रप पान्थस्वेद-

छेदक्षमं विषसमं तव मुग्ध दुग्धम् ।

धूर्तप्रपश्चितमहातरुकीर्तनेन
 

रे निष्फलस्त्वमसि कण्टकित: करीर ॥ २१८ ॥

 
हंहो मरुस्थलमहीरुह तावकीनं

संभावयामि महिमानममानमेव ।
 
१३५
 
For Private And Personal Use Only