This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१३४
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
किंशुक किं शुकमुखवत्कुसुमानि मधौ विकाशयस्यनिशम् ।

यस्यां जनोऽनुरागी सा गीरेतैः कदापि नोच्चार्या ॥ २०५ ॥

 
तइयच्चिय परिचत्ता तुज्झ पलासा पलाससउणेहिम् ।

कुसुमम्गमे वजन्ति हयासकसिणी कयं वयणम् ॥ २०६ ॥
 

( इति किंशुकान्योक्तयः )
 

 
अथ पलाशपुष्परसस्य ।
 

 
मा गर्वमुद्ह विमूढ पलाशपुष्प
 

यत्षट्पदः श्रयति मामतिगन्धलुब्धः ।

रे मालतीविरहतो ज्वलदभिग्निकल्पं
 

त्वां मृत्युकारणमवेत्य समाश्रितोसौ ॥ २०७ ॥

 
अथ बब्बूलान्योक्तयः ।
 

तुच्छं पत्रफलं कषायविरसं छायापि ते कर्बुरा

शाखा कण्टककोटिभिः परिवृता मत्कोटकोटिस्थलम् ।

अन्यस्यापि तरोः फलानि ददतः कृत्वा वृतिं तिष्ठसि

रे बब्बूलतरो सुसङ्गरहितः किं वर्ण्यते तेऽधुना ॥ २०८ ॥

 
[^१]
आमूलाग्रनिबद्धकण्टकतनुर्निर्गन्धपुष्पागम-

श्छाया न श्रमहारिणी न च फलं क्षुत्क्षामसंतर्पणम् ।

बब्बूलद्रुम साधुसङ्गरहितस्त्वं तावदास्ता महो

अन्येषामपि शाखिनां फलवतां गुप्त्यै वृतिर्जायसे ॥ २०९ ॥

 
स्व
यमफलवान्भेदं छेदं स्थितेश्च विकर्षणं
 

कुहरपतनं बब्बूलोऽयं विषह्य वृतीभवन् ।

खल इव फलान्यन्यस्यापि प्रभूततराण्यहो
 

न दिशति सतां भोक्तुं द्युम्नान्वितः पटुकण्टकैः ॥ २१० ॥
 

 
[^
१.] 'गात्रं कण्टकसंकटं प्रविरलच्छायाभृतः पलवा निर्गन्धः कुसुमोत्करस्तव फलं न

क्षुद्विनाशक्षमम् । बब्बूलद्रुम मूलमेति न जनस्ते तावदास्तामहो अन्येषामपि शाखिनां

फलवताम्' इत्यपि पाठान्तरम्.
 
For Private And Personal Use Only