This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
१३४
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
किंशुक किं शुकमुखवत्कुसुमानि मधौ विकाशयस्यनिशम् ।
यस्यां जनोऽनुरागी सा गीरेतैः कदापि नोच्चार्या ॥ २०५ ॥
तइयच्चिय परिचत्ता तुज्झ पलासा पलाससउणेहिम् ।
कुसुमम्गमे वजन्ति हयासकसिणी कयं वयणम् ॥ २०६ ॥
 
( इति किंशुकान्योक्तयः )
 
अथ पलाशपुष्परसस्य ।
 
मा गर्वमुद्रह विमूढ पलाशपुष्प
 
यत्षट्पदः श्रयति मामतिगन्धलुब्धः ।
रे मालतीविरहतो ज्वलदभिकल्पं
 
त्वां मृत्युकारणमवेत्य समाश्रितोसौ ॥ २०७ ॥
अथ बब्बूलान्योक्तयः ।
 
तुच्छं पत्रफलं कषायविरसं छायापि ते कर्बुरा
शाखा कण्टककोटिभिः परिवृता मत्कोटकोटिस्थलम् ।
अन्यस्यापि तरोः फलानि ददतः कृत्वा वृतिं तिष्ठसि
रे बब्बूलतरो सुसङ्गरहितः किं वर्ण्यते तेऽधुना ॥ २०८ ॥
आमूलाग्रनिबद्धकण्टकतनुर्निर्गन्धपुष्पागम-
श्छाया न श्रमहारिणी न च फलं क्षुत्क्षामसंतर्पणम् ।
बब्बूलद्रुम साधुसङ्गरहितस्त्वं तावदास्ता महो
अन्येषामपि शाखिनां फलवतां गुप्त्यै वृतिर्जायसे ॥ २०९ ॥
खयमफलवान्भेदं छेदं स्थितेश्च विकर्षणं
 
कुहरपतनं बब्बूलोऽयं विषय वृतीभवन् ।
खल इव फलान्यन्यस्यापि प्रभूततराण्यहो
 
न दिशति सतां भोक्तुं द्युम्नान्वितः पटुकण्टकैः ॥ २१० ॥
 
१. 'गात्रं कण्टकसंकटं प्रविरलच्छायाभृतः पलवा निर्गन्धः कुसुमोत्करस्तव फलं न
क्षुद्विनाशक्षमम् । बब्बूलद्रुम मूलमेति न जनस्ते तावदास्तामहो अन्येषामपि शाखिनां
फलवताम्' इत्यपि पाठान्तरम्.
 
For Private And Personal Use Only