2023-02-21 15:49:04 by ambuda-bot
This page has not been fully proofread.
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
अथ खदिरान्योक्तयः ।
चन्दने विषधरान्सहामहे वस्तु सुन्दरमगुप्तिमत्कुतः ।
रक्षितं वद किमात्मसौष्ठवं वर्धिताः खदिर कण्टकास्त्वया ॥१९७॥
पैदं तदिह नास्ति यन्न खदिरैः खरैरावृतं
न तेऽपि खदिरा न ये कुटिलकण्टकैरावृताः ।
न ते कुटिलकण्टकाः किमपि ये न मर्मच्छिद-
स्तदुज्झत वृथा स्थितिं बत सहध्वमध्वश्रमम् ॥ १९८ ॥
अथ वंशस्य ।
गाढग्रन्थिविसंस्थुलोऽपि कलयन्काठिन्यमप्यन्वहं
छायामात्रविवर्जितोऽपि निशितैरप्यङ्कितः कण्टकैः ।
मिथ्यारूढजनप्रसिद्धिवचनैर्मुक्ताफलश्रद्धया
घिङ्मूढेन मयैष वंशविटपी शून्याशयः सेवितः ॥ १९९ ॥
अथ वेतसस्य ।
सर्वेषामपि वृक्षाणां वेत्त्येको वेतसद्रुमः ।
नम्रीभूयावति प्राणान्नदीपूररिपूदये ॥ २०० ॥
अथ किंशुकान्योक्तयः ।
किंशुकाद्गच्छ मा तिष्ठ शुक्र भाविफलाशया ।
बाह्यरङ्गप्रपञ्चेन के के नानेन वञ्चिताः ॥ २०१ ॥
किंशुके किं शुकः कुर्यात्फलितेऽपि बुभुक्षितः ।
अदातरि समृद्धेऽपि किं कुर्वन्त्युपजीविनः ॥ २०२ ॥
रक्तेन वा विरक्तेन किं पलाशेन पक्षिणाम् ।
१३३
For Private And Personal Use Only
यस्य पुष्पे न सौभाग्यं फले न मधुरो रसः ॥ २०३ ॥
यज कुसुमित किंशुकाभिमानं निजशिरसि भ्रमरोपवेशनेन ।
विकचकुमुममालतीवियोगाद्दहनधिया कुरुते त्वयि प्रवेशम् ॥ २०४ ॥
१. 'परम्' इति पुस्तकान्तरे.