This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१३२
 
www.kobatirth.org.
 
काव्यमाला ।
 
तु
 
इति ध्यात्वोपास्तं फलमपि तु दैवात्परिणतं

निदाने वृं[^१]वृङ्कोऽन्तः सपदि मरुता सोऽप्यपहृतः ॥ १८८ ॥

 
निर्गन्धं कुसुमं फलं कटुतरं छायापि ते कर्बुरा

बाह्यं कण्टकखपेर्परैः परिवृतं निःसारमन्तर्वपुः ।

वृद्धिर्गृध्रपरिग्रहाय किमहो वक्तव्यमस्मात्परं
 

हंहो शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥ १८९ ॥

 
छायान्वितोऽपि सरलोऽप्यतिविस्तृतोऽपि

कान्तप्रसूनविभवोऽप्यतिसुन्दरोऽपि ।

यत्त्वं फलेऽर्थिषु विसं से प्रकाम-

मस्पृश्यतां भजसि शाल्मलिवृक्ष तस्मात् ॥ १९० ॥
 

( इति शाल्मल्यन्योक्तयः )
 

 
अथ निम्बान्योक्तयः ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 

दुग्धेन सिक्तो निम्बोऽयमालवालं कृतं गुडैः ।
 

तथापि जातिवैचित्र्यात्कटुकत्वं न मुञ्चति ॥ १९९ ॥

 
शर्करासा: सर्पिःसंयुक्तं निम्बबीजं प्रतिष्ठितम् ।

क्षीरघटसहस्रेण निम्बः किं मधुरायते ॥ १९२ ॥

 
निम्ब किं बहुनोक्तेन निष्फलानि फलानि ते ।

यानि संजातपाकानि काका निःशेषयन्त्यमी ॥ १९३ ॥

 
यस्मादर्थिजनो मनोभिलषितं लब्ध्वा मुदा मेदुरः
 

सार्धं बन्धुजनैश्चकार विविधान्भोगान्विलासोद्धुरः ।

तं दैवेन विवेकशून्यमनसा निर्मूल्य चूतद्रुमं
 

स्थाने तस्य तु काकलोकवसतिर्निम्बः समारोपितः ॥ १९४ ॥

 
जइ फलभरेण नमिओ निम्बो घणछायकुसुमगन्धाढ्ढो ।

तो वायसाणजुग्गो नहु जुग्गो इयर पप्षीणम् ॥ १९५ ॥

 
जन्मन्तरंभि वसिओ निम्बतरू इक्खुवाडमव्ब्भम्मि ।
 

ता किं न होइ गुलिओ संसम्ग्गी जइ गुणा हुन्ति ॥ १९६ ॥

( इति निम्बान्योक्तयः )
 

 
[^१]
. 'तूलोऽन्तः' इत्यपि पाठः.
 
For Private And Personal Use Only