This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
१३२
 
www.kobatirth.org.
 
काव्यमाला ।
 
तु
 
इति ध्यात्वोपास्तं फलमपि तु दैवात्परिणतं
निदाने वृंङ्कोऽन्तः सपदि मरुता सोऽप्यपहृतः ॥ १८८ ॥
निर्गन्धं कुसुमं फलं कटुतरं छायापि ते कर्बुरा
बाह्यं कण्टकखपेरैः परिवृतं निःसारमन्तर्वपुः ।
वृद्धिर्गृध्रपरिग्रहाय किमहो वक्तव्यमस्मात्परं
 
हंहो शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥ १८९ ॥
छायान्वितोऽपि सरलोऽप्यतिविस्तृतोऽपि
कान्तप्रसूनविभवोऽप्यतिसुन्दरोऽपि ।
यत्त्वं फलेऽर्थिषु विसंबद से प्रकाम-
मस्पृश्यतां भजसि शाल्मलिवृक्ष तस्मात् ॥ १९० ॥
 
( इति शाल्मल्यन्योक्तयः )
 
अथ निम्बान्योक्तयः ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 
दुग्धेन सिक्तो निम्बोऽयमालवालं कृतं गुडैः ।
 
तथापि जातिवैचित्र्यात्कटुकत्वं न मुञ्चति ॥ १९९ ॥
शर्करासा: संयुक्तं निम्बबीजं प्रतिष्ठितम् ।
क्षीरघटसहस्रेण निम्बः किं मधुरायते ॥ १९२ ॥
निम्ब किं बहुनोक्तेन निष्फलानि फलानि ते ।
यानि संजातपाकानि काका निःशेषयन्त्यमी ॥ १९९३ ॥
यस्मादर्थिजनो मनोभिलषितं लब्ध्वा मुदा मेदुरः
 
सार्धं बन्धुजनैश्चकार विविधान्भोगान्विलासोद्धुरः ।
तं दैवेन विवेकशून्यमनसा निर्मूल्य चूतद्रुमं
 
स्थाने तस्य तु काकलोकवसतिर्निम्बः समारोपितः ॥ १९४ ॥
जइ फलभरेण नमिओ निम्बो घणछायकुसुमगन्धाढ्ढो ।
तो वायसाणजुग्गो नहु जुग्गो इयर पप्षीणम् ॥ १९५ ॥
जन्मन्तरंभि वसिओ निम्बतरू इक्खुवाडमव्भम्मि ।
 
ता किं न होइ गुलिओ संसम्गी जइ गुणा हुन्ति ॥ १९६ ॥
( इति निम्बान्योक्तयः )
 
१. 'तूलोऽन्तः' इत्यपि पाठः.
 
For Private And Personal Use Only