This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्र पतितः

किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥ १८२ ॥

 
मुखे यद्वैरस्यं वपुरपि पुनर्ग्रन्थिनिचितं
 

न संतप्तः कोऽपि क्षणमपि भजेन्मूलमभितः ।

फलं चैवाप्राप्तं वितथसरलिम्नश्च भवत-

स्तदिक्षो नायुक्तं विहितमितरैर्यत्तु दलनम् ॥ १८३ ॥
 

( इतीक्षोरन्योक्तयः )
 

 
अथ पीलोः ।
 

धन्याः सूक्ष्मफला अपि प्रियतमास्ते पीलुवृक्षाः क्षितौ

क्षुत्क्षुण्णेन जनेन हि प्रतिदिनं येषां फलं भुज्यते ।

किं तैस्तत्र महाफलैरपि पुनः कल्पद्रुमाद्यैर्दुमै-

र्
येषां नाम मनागपि श्रमनुदे छायापि न प्राप्यते ॥ १८४ ॥

 
अथ बदर्याः ।
 

परिमलगुणेन केतकि कण्टककूटानि वहसि तद्युक्तम् ।

गुणरहितबदरि यत्त्वं वहसि परं तानि तत्किंनु ॥ १८५ ॥

 
अथ शाल्मल्यन्योक्तयः ।
 

 
हंसाः पद्मवनाशया मधुलिह: सौरभ्यगन्धाशया
 

पान्थाः खादुफलाशया बलिभुजो गृप्ध्राश्च मांसाशया ।

दूरादुन्नतपुष्परागनिकरैर्निःसार मिथ्योन्नते
 

रे रे शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥ १८६ ॥

 
कायः कण्टकभूषितो न च नवच्छायाकृतः पल्लवाः

पुष्पाणि च्युतसौरभाणि न दलश्रेणी मनोहारिणी ।

किं ब्रूमः फलपाकमस्य यदुपन्यासेऽपि लज्जामहे
 

तद्भोः केन गुणेन शाल्मलितरो जातोऽसि सीमद्रुमः ॥१८७॥

 
विशालं शाल्मल्यां नयनसुभगं वीक्ष्य कुसुमं

शुकानां श्रेणीभिः फलमपि भवेदस्य सदृशम् ।
 
For Private And Personal Use Only