This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१३०
 
www.kobatirth.org.
 
काव्यमाला ।
 
आयासं रुद्धं पल्लवेहिं मूलेहिहिं तहय पायालम् ।
 

तुच्छ फलं वड बीयं पुन्नं गरुयं न ववसाओ ॥ १७५ ॥

 
वडविडवि किं न लज्जसि गिरुओ तुच्छं फलं समप्पन्तो ।

कोहलिया दुच्छलिया गिरुअं गिरुअं फलं देइ ॥ १७६ ॥
 

( इति वटान्योक्तयः )
 
Acharya Shri Kailassagarsuri Gyanmandir
 

 
अथ मधूकस्य ।
 

तत्तेजस्तरणेर्निदाघसमये तद्वारि मेघागमे
 

तज्जाड्यं शिशिरे मदेकशरणैः सोढं पुरा यैर्दलैः

आयातस्त्वधुना फलस्य समयः किं तेन मे तैर्विना

स्मृत्वा तानि शुचेव रोदिति गलत्पुष्पैर्मधूकद्रुमः ॥ १७७ ॥

 
यदास्ति पात्रं न तदास्ति वित्तं यदास्ति वित्तं न तदास्ति पात्रम् ।

इत्थं हि चिन्तापतितो मधूको मन्येऽश्रुपातै रुदनं करोति ॥ १७८ ॥

 
मूलादेव यदस्य विस्तृतिभरच्छायाप्यनन्यादृशी
 

ते यस्य प्रसवाः स्वमञ्जुलरसैरानन्दयन्ति प्रजाः ।

स्नेहं च प्रकटीकरोति परमं भूयः फलानां गुणै-

र्हित्वैकैकगुणांस्तरून्भज सखे तस्मान्मधूकद्रुमम् ॥ १७९ ॥

 
अहलो पत्तावरिओ फलकाले मूढ पत्ताई ।
इं ।
इणिकारणि रे विडबि महूय तुह एरिसं नाम ॥ १८० ॥
 

( इति मधूकान्योक्तयः )
 

 
अथेक्षोरन्योक्तयः ।
 

कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि

किंचासि पञ्चशरकार्मुकमद्वितीयम् ।

इक्षो तवास्ति सकलं परमेकमूनं
 

यत्सेवितो वहसि नीरसतां क्रमेण ॥ १८१ ॥

 
परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो

यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः ।
 
For Private And Personal Use Only