This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
१३०
 
www.kobatirth.org.
 
काव्यमाला ।
 
आयासं रुद्धं पल्लवेहिं मूलेहि तहय पायालम् ।
 
तुच्छ फलं वड बीयं पुनं गरुयं न ववसाओ ॥ १७५ ॥
वडविडवि किं न लज्जसि गिरुओ तुच्छं फलं समप्पन्तो ।
कोहलिया दुच्छलिया गिरुअं गिरुअं फलं देइ ॥ १७६ ॥
 
( इति वटान्योक्तयः )
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अथ मधूकस्य ।
 
तत्तेजस्तरणेर्निदाघसमये तद्वारि मेघागमे
 
तज्जाड्यं शिशिरे मदेकशरणैः सोढं पुरा यैदलैः
आयातस्त्वधुना फलस्य समयः किं तेन मे तैर्विना
स्मृत्वा तानि शुचेव रोदिति गलत्पुष्पैर्मधूकद्रुमः ॥ १७७ ॥
यदास्ति पात्रं न तदास्ति वित्तं यदास्ति वित्तं न तदास्ति पात्रम् ।
इत्थं हि चिन्तापतितो मधूको मन्येऽश्रुपातै रुदनं करोति ॥ १७८ ॥
मूलादेव यदस्य विस्तृतिभरच्छायाप्यनन्यादृशी
 
ते यस्य प्रसवाः खमञ्जलरसैरानन्दयन्ति प्रजाः ।
स्नेहं च प्रकटीकरोति परमं भूयः फलानां गुणै-
र्हित्वैकैकगुणांस्तरून्भज सखे तस्मान्मधूकद्रुमम् ॥ १७९ ॥
अहलो पत्तावरिओ फलकाले मूढ पत्ताई ।
इणिकारणि रे विडबि महूय तुह एरिसं नाम ॥ १८० ॥
 
( इति मधूकान्योक्तयः )
 
अथेक्षोरन्योक्तयः ।
 
कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि
किंचासि पञ्चशरकार्मुकमद्वितीयम् ।
इक्षो तवास्ति सकलं परमेकमूनं
 
यत्सेवितो वहसि नीरसतां क्रमेण ॥ १८१ ॥
परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो
यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः ।
 
For Private And Personal Use Only