This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
अथ भूर्जस्य ।
 

 
दौर्जन्यमात्मनि परं प्रथितं विधात्रा

भूर्जद्रुमस्य विफलत्वसमर्पणेन ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 

किं वर्मभिर्निशितशस्त्रशतावकृत्तै-

राशां न पूरयति सोऽर्थिपरम्पराणाम् ॥ १६८ ॥

 
कुर्वन्तु नाम जनतोपकृतिं प्रसून-

च्छायाफलैरविकलैः सुलमैर्दुभैर्द्रुमास्ते ।

सोढास्तु कर्तनरुजः पररक्षणार्थ-

मेकेन भूर्जतरुणा करुणापरेण ॥ १६९ ॥
 

 
अथाश्वत्थस्य ।
 

वर्धितैः सेवितैः किं तैः सत्यश्वत्थेऽन्यपादपैः ।

वर्धितो नरकाद्रक्षेत्स्पृष्टोऽनिष्टानि हन्ति यः ॥ १७० ॥

 
अथ न्यग्रोधान्योक्तयः ।
 
१२९
 

विस्तीर्णो दीर्घशाखाश्रितशकुनिशतः शाखिनामग्रणीस्त्वं
 

न्यग्रोध क्रोधमन्तः प्रकटयसि न चेद्वच्मि किंचित्तदल्पम् ।

जल्पोऽप्येष त्रपाकृत्प्रलघुपरिकरा काक्वापि कूष्माण्डवल्ली
 
पल्लीपृष्ठप्रतिष्ठा हसति निजफलैस्त्वत्फलार्द्धि किमन्यत् ॥ १७१ ॥

 
न्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते
 
For Private And Personal Use Only
 

बीजान्यङ्कुरगोचराणि कतिचित्सिद्ध्यन्ति तस्मिन्नपि ।

एकस्तेष्वपि कश्चिदङ्कुरवरो बध्नाति तामुन्नतिं

[^१]
यामध्यास्य जनः स्वमातरमिव क्लान्तिच्छिदे धावति ॥ १७२ ॥

 
रुद्ध्यावा खपल्लवैर्व्योम मूलैस्तु वडवामुखम् ।

रे न्यग्रोध फलं हीनं ददानः किं न लज्जसे ॥ १७३ ॥

 
महातरुर्वा भवति समूलो वा विनश्यति ।

नान्तरप्रत्ययानेति न्यग्रोधकणिकाङ्कुरः ॥ १७४ ॥
 

 
[^१]
. 'यामध्वन्यजनः' इत्यपि वा पाठः.