This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
अथ भूर्जस्य ।
 
दौर्जन्यमात्मनि परं प्रथितं विधात्रा
भूर्जद्रुमस्य विफलत्वसमर्पणेन ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 
किं वर्मभिर्निशितशस्त्रशतावकृत्तै-
राशां न पूरयति सोऽर्थिपरम्पराणाम् ॥ १६८ ॥
कुर्वन्तु नाम जनतोपकृतिं प्रसून-
च्छायाफलैरविकलैः सुलमैर्दुमास्ते ।
सोढास्तु कर्तनरुजः पररक्षणार्थ-
मेकेन भूर्जतरुणा करुणापरेण ॥ १६९ ॥
 
अथाश्वत्थस्य ।
 
वर्धितैः सेवितैः किं तैः सत्यश्वत्थेऽन्यपादपैः ।
वर्धितो नरकाद्रक्षेत्स्पृष्टोऽनिष्टानि हन्ति यः ॥ १७० ॥
अथ न्यग्रोधान्योक्तयः ।
 
१२९
 
विस्तीर्णो दीर्घशाखाश्रितशकुनिशतः शाखिनामग्रणीस्त्वं
 
न्यग्रोध क्रोधमन्तः प्रकटयसि न चेद्वच्मि किंचित्तदल्पम् ।
जल्पोऽप्येष पात्प्रलघुपरिकरा कापि कूष्माण्डवल्ली
 
पल्लीपृष्ठप्रतिष्ठा हसति निजफलैस्त्वत्फलार्द्ध किमन्यत् ॥ १७१ ॥
न्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते
 
For Private And Personal Use Only
 
बीजान्यङ्कुरगोचराणि कतिचित्सिद्ध्यन्ति तस्मिन्नपि ।
एकस्तेष्वपि कश्चिदङ्कुरवरो बध्नाति तामुन्नतिं
यामध्यास्य जनः स्वमातरमिव क्लान्तिच्छिदे धावति ॥ १७२ ॥
रुद्ध्या खपल्लवैर्व्योम मूलैस्तु वडवामुखम् ।
रे न्यग्रोध फलं हीनं ददानः किं न लजसे ॥ १७३ ॥
महातरुर्वा भवति समूलो वा विनश्यति ।
नान्तरप्रत्ययानेति न्यग्रोधकणिकाङ्कुरः ॥ १७४ ॥
 
१. 'यामध्वन्यजनः' इत्यपि वा पाठः.