This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
१२८
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
दासेरकस्य दासीयं बदरी यदि रोचते ।
एतावतैव किं द्राक्षा न साक्षादमृतप्रदा ॥ १६१ ॥
अथ दाडिमस्य ।
आपुष्पप्रसरान्मनोहरतया विश्वास्य विश्वं जनं
 
हो दाडिम तावदेव सहसे वृद्धिं स्वकीयामिह ।
यावन्नैति परोपभोगसहतामेषा ततस्तां तथा
ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनाभिवन्द्यो भवान् ॥ १६२॥
अथ नालिकेर्यन्योक्तयः ।
 
प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
 
शिरसि निहितभारा नालिकेरा नराणाम् ।
ददति जलमनल्पास्वादमाजीवितान्तं
 
नहि कृतमुपकारं साधवो विस्मरन्ति ॥ १६३ ॥
लाध्यैव नालिकेर्या गुरुतामुप्या यतः फलं विपुलम् ।
जलपरिपूरितमध्यं क्षुत्तृष्णाप्रशमनं कुरुते ॥ १६४ ॥
नालेरीइसरिच्छा इह लोए हुन्ति केइ सप्पुरिसा
निय वारिरक्खणट्ठा तिविहावाडी कया जेण ॥ १६५ ॥
( इति नालिकेर्यन्योक्तयः । )
 
अथ तालस्य ।
 
अये ताल ब्रीडां व्रज गुरुतया भाति न भवा-
न्न वा कापि च्छाया कठिनपरिवारं तव वपुः ।
इयं वन्या धन्या सरसकदलीसुन्दरदला
परात्मानं न त्वं सुखयसि फलेनामृतभुवा ॥ १६६ ॥
अध्वन्यध्वनि भूरुहः फलभृतो नम्रानुपेक्ष्यादरा-
द्दूरादुन्नतिसंशयव्यसनिनः पान्थस्य मुग्धात्मनः ।
यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा
 
शीर्णेनापि हि नोपयोगमगमत्पर्णेन तालद्रुमः ॥ १६७ ॥
 
For Private And Personal Use Only