This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
एतासु केतकिलतासु विकासिनीषु

सौभाग्यमद्भुततरं भवती बिभर्ति ।

यत्कण्टकैर्व्यथितमात्मवपुर्न जानं-

स्त्वामेव सेवितुमुपक्रमते द्विरेफः ॥ १५४

 
धन्यासि केतकिलते तव किंचिदूनं

नूनं न चास्ति कनकाम्बुजगर्भगौरि ।

यत्सेवितानि शुभसौरभलोभलुब्धै

र्मत्तालिभिर्विगणितोत्कटकण्टकैस्त्वम् ॥ १५५ ॥

 
उत्कटकण्टककोटीघर्षणघृष्टानि हृदि न चिन्तयति ।

असदृशरसविवशमतिर्विशत्यलिः केतकीकुसुमम् ॥ १५६ ॥
 

इति केतक्यन्योक्तयः ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 

 
अथ कदल्याः ।
लाटीतरोरनुपकारि फलं विदित्वा
 
लज्जावशादुचित एव विनाशयोगः ।
एतत्तु चित्रमुपकृत्य फलैः परेभ्यः
 
अथ
पनसस्य ।
 

 
गरीयान्सौरभ्ये रसपरिचयेनार्चति सुधा
 

मुधा मृद्रीवीकापि प्रथिमनि निममःग्नः फलभरः ।

परार्थे कोश श्रीरिति पुलकितः कण्टकमिषा-

दहो ते चारित्रं पनस मनसः कस्य न मुदे ॥ १५७ ॥
 
१२७
 

 
अथ कदल्याः ।
लाटीतरोरनुपकारि फलं विदित्वा
लज्जावशादुचित एव विनाशयोगः ।
एतत्तु चित्रमुपकृत्य फलैः परेभ्यः
प्राणान्निजाञ्झटिति यत्कदली जहाति ॥ १५८ ॥

 
लहुओबिविहु सेविज्जइ जो गुरुपत्तेहिं होइ परिवरिओ ।

पत्तविसेसे कदली अमियसमाणं फलं देइ ॥ १५९ ॥
 

 
अथ द्राक्षायाः ।
 

 
यद्यपि न भवति हानिः परकीयां चरति रासभे द्राक्षाम् ।

असमञ्जसं तु दृष्ट्वा तथापि परिदह्यते चेतः ॥ १६० ॥
 
For Private And Personal Use Only