2023-02-21 15:49:01 by ambuda-bot
This page has not been fully proofread.
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
यैरेव शुद्धसलिलैः परिपालितस्त्वं
तेभ्यः पृथग्भवसि पङ्कभवोऽसि यस्मात ॥ १३८ ॥
रे पद्मिनी जलरुहस्तव युक्तमेत-
त्सङ्गं करोषि मलिनैर्मधुपैः समं यत् ।
प्रायो विशुद्धकुलजा अपि लब्धवर्णा
नार्यो भवन्ति खलु नीचजनानुरक्ताः ॥ १३९ ॥
ख्याता वयं समधुपा मधुकोशवत्य-
श्चन्द्रः प्रसारितकरो द्विजराज एषः ।
अस्मत्समागमकृतेऽस्य पुनर्द्वितीयो
माभूत्कलङ्क इति संकुचिता नलिन्यः ॥ १४० ॥
रे भ्रमर भ्रमरहितं कथय कथं यासि कुमुदिनीमेनाम् ।
उदितेऽपि जगञ्चक्षुषि पश्यैषा स्मितमुखी नासीत् ॥ १४१ ॥
रवेरस्तं तेजः समुदयति खद्योतपटली
मरालाली मूका कलकलमुलूका विदधते ।
इदं दृष्टं कष्टं चिरमसहमाना कमलिनी
मिलद्भृङ्गव्याजात्कवलयति हालाहलमिव ॥ १४२ ॥
अस्तं गते दिवानाथे नलिनी मधुपच्छलात् ।
गिलन्ति स्वविनाशाय गुटिकां कालकूटजाम् ॥ १४३ ॥
अस्तं गतबति सवितरि भर्तरि मधुपं निवेश्य कोशान्ते ।
कमलिन्योsपि रमन्ते किमत्र चित्रं मृगाक्षीणाम् ॥ १४४ ॥
इति नलिन्यन्योक्तयः ।
अथ मालत्यन्योक्तयः ।
११५
किं मालतीकुसुम लाम्यसि निष्ठुरेण
केनापि यत्किल विलूनमितो लताग्रात् ।
लोकोत्तरेण बिलसद्गुणगौरवेण
को नामुना शिरसि नाम करिष्यति त्वाम् ॥ १४५ ॥
For Private And Personal Use Only