This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१२४
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि-

र्
दण्डे कर्कशता मुखेऽतिमृदुता मित्रे महान्प्रश्रयः ।

आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे

यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ १३० ॥

 
यन्माता विष्णुनाभिः समजनि तनयो यस्य देवः खयंभू-

र्
लक्ष्मीर्यत्संश्रया भूर्यदपि करतले भारती संबभार ।

भानुर्यस्यास्ति मित्रं तदपि सरसिजं क्षीणमिन्दोर्मयूखै-

स्त्रातुं नैवोत्सहन्ते गतसुकृतफलप्रान्तकाले सहायाः ॥ १३१

 
प्रसारितकरे मित्रे जगदुद्योतकारिणि ।
 

किं न तैरेव लज्जा ते कुर्वतः पाणिसंवृतिम् ॥ १३२ ॥

 
लक्ष्मीसंपर्कजातोऽयं दोषः पद्मस्य निश्चितम् ।

यदेष गुणसंदोहधाम्नि चन्द्रे पराङ्मुखः ॥ १३३ ॥

 
उदितवति द्विजराजे कस्य न हृदये मुदः पदं दधति ॥

संकुचसि कमल यदयं हरहर वामो विधिर्भवतः ॥ १३४ ॥

 
अन्तरिछद्राणि भूयांसि कण्टका बहवो बहिः ।
 

कथं कमलनालस्य माभूवन्भङ्गुरा गुणाः ॥ १३५ ॥

 
एते च गुणाः पङ्कज सन्तोऽपि न
ते प्रकाशमायान्ति ।

यल्लक्ष्मीवसतेस्तव मधुपैरुपजीव्यते कोशः ॥ १३६ ॥

 
कामं भवन्तु मधुलम्पटषट्पदौघ-

संघट्टघुर्घुरघनध्वनयोऽब्जखण्डाः ।
 

 
गायन्नतिश्रुतिसुखं विधिरेव यत्र
 

भृङ्गः स कोऽपि धरणीधरनाभिपद्मः ॥ १३७ ॥
 

इति पङ्कजान्योक्तयः ।
 

 
अथ नलिम्न्योक्तयः ।
 

 
रे पद्मिनीदल तवात्र मया चरित्रं

दृष्टं विचित्रमिव यद्विदितं ब्रुवे तत् ।
 
For Private And Personal Use Only