This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१२२
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
माकन्दो
 
मकरन्दतुन्दिलमिलवृद्भृङ्गालिशृङ्गारितः

सैकोऽप्यस्ति न मित्र यत्र तनुते शब्दायते कोकिलः ॥ ११२॥

 
केचित्पल्लवलीलया परिमलैरन्ये फलैः केचन

च्छायाभिर्घनशीतलाभिरपरे केऽपि द्विरेफखरैः ।

प्रत्येकं मुदमुद्धरन्ति तरवः सर्वैरमीभिः पुनः
 

पान्थानां गुणवक्त्रमिन्द्रियगणे दत्तं रसाल त्वया ॥ ११३ ॥

 
मूर्तिर्नेत्ररसायनं यदि कुतश्छायेयमच्छेतरा
 

चक्रे सापि ततः कुतः फलभरः पीयूषगुञ्जागृहम् ।

एवं सर्वगुणाद्भुतं यदि भवानाद्रुमं निर्ममे
 

तत्तत्र प्रगुणीकृतः कथमसौ दुर्दैवदावानलः ॥ ११४ ॥

 
विच्छायतां व्रजसि किं सहकार शाखि-

न्यत्फाल्गुनेन सहसापहृता मम श्रीः ।

प्राप्ते वसन्तसमये तव सा विभूति-

र्भूयो भविष्यति तरामचिरादवश्यम् ॥ ११५ ॥

 
अन्तर्वहसि कषायं बाह्याकारेण मधुरतां यासि ।

सहकार मायिविटपिन्युक्तं लोकैर्बहिर्नतिः ॥ ११६ ॥
 

इति सहकारान्योक्तयः ।
 

 
अथागुरोरन्योक्तयः ।
 

 
अगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये ।

दर्शितगुणैव वृत्तिर्यस्य जने जनितदाहेऽपि ॥ ११७ ॥

 
यः परप्रीतिमाघाधातुं भस्मतामपि गच्छति ।

विवेकमानिनः पश्य धात्रा सोऽप्यगुरुः कृतः ॥ ११८ ॥

 
आरामाभरणस्य पल्लवचयैर/रापीततिग्मत्विषः
 

पाथोद प्रशमं नयागुरुतरोरेतस्य दाघज्वरम् ।
 

ब्रूमस्त्वामुपकारकातर गतप्रायाः पयःसंपदो
 

दग्घोऽप्येष तरुर्दिशः परिमलैरापूर्य निर्वास्यति ॥ ११९ ॥
 

ल्त्यगुरोरन्योक्तयः ।
 
For Private And Personal Use Only