This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 

 
अन्योक्तिमुक्तावली ।
 
करान्प्रसार्य सूर्येण दक्षिणाशावलम्बिना ।

न केवलमनेनात्मा दिवसोऽपि लघुकृतः ॥ ३८ ॥

 
यच्छञ्जलमपि जलदो वल्लभतामेति सकललोकस्य ।

नित्यं प्रसारितकरः करोति सूर्योऽपि परितापम् ॥ ३९ ॥

 
उदेति सविता ताम्रस्तात्म्र एवास्तमेति च ।

संपत्तौ च विपत्तौ च महतामेकरूपता ॥ ४० ॥

 
निमीलनाय पद्मानामुदयायाल्पतेजसाम् ।

तमसामवकाशाय व्रजत्यस्तमहो रविः ॥ ४१ ॥
 

 
एतावत्सरसि सरोरुहस्य कृत्यं भित्त्वाम्भः सपदि बहिर्विनिर्गतं यत् ।

सौरभ्यं विकसनमिन्दिरानिवासस्तत्सर्वे दिनकरकृत्यमामनन्ति ॥ ४२ ॥

देवो हरिर्वहतु वक्षसि कौस्तुभं तं
 

मन्ये न काचन पुनर्क्रद्युमणेः प्रतिष्ठा ।

यत्पादसंगतितरङ्गितसौरभाणि
 

धत्ते स एव शिरसा सरसीरुहाणि ॥ ४३ ॥

 
यो भृङ्गानां क्लिश्यतां पद्मकोशकारागारे मोक्षमर्कश्चकार ।

तन्मालिन्यादेव नोपेक्षतेऽसौ प्रायः साधुः सर्वलोकोपकारी ॥ ४४ ॥

 
अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः ।

मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति ॥ ४५ ॥

 
उदयमयते दिङ्मालिन्यं निराकुरुतेतरां
 

नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः ।

रचयतितरां स्वैराचारप्रवर्तनकर्तनं
 

बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ॥ ४६ ॥

 
आगत्य संप्रति वियोगविसंस्थुलाङ्गी-

मम्भोजिनीं क्वचिदपि क्षपितत्रियामः ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 

 
एतां प्रसादयति पश्य शनैः प्रभाते
 

तन्वङ्गि पादपतनेन सहस्ररश्मिः ॥ ४७ ॥
 
For Private And Personal Use Only